कथा च या विप्रवराः प्रसक्ता दैवे महावीर्यमतौ शुभेयम् योगान् स सर्वान् अनुभूय मर्त्या नारायणं तं द्रुतम् आप्नुवन्ति
सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
सांख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते
शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम् विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः
यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला
ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा
विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा महर्षिविषयांश् चैव राजर्षिविषयांस् तथा
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान्
विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम्
तिर्यक्त्वे पततां विप्रास् तथैव नरकेषु यत् स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश् च भो द्विजाः
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः
सांख्यज्ञाने च ये दोषांस् तथैव च गुणा द्विजाः सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा
तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा षड्गुणं च नभो ज्ञात्वा तमश् च त्रिगुणं महत्
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु
ज्ञानविज्ञानसंपन्नाः कारणैर् भावितात्मभिः प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम्
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् अप्सु देवीं समायुक्ताम् आपस् तेजसि संश्रिताः
तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् नभो महति संयुक्तं तमो महसि संस्थितम्
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि सक्तम् आत्मानम् ईशे च देवे नारायणे तथा
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान्
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः
प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान् सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतपान्
सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम्