आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात्
भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः एकाहारी विशुद्धात्मा योगी बलम् अवाप्नुयात्
पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात्
अखण्डम् अपि वा मासं सततं मुनिसत्तमाः उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात्
कामं जित्वा तथा क्रोधं शीतोष्णं वर्षम् एव च भयं शोकं तथा स्वापं पौरुषान् विषयांस् तथा
अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः
दीपयन्ति महात्मानं सूक्ष्मम् आत्मानम् आत्मना वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा
दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः
यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम्
अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत् तथा
योगमार्गं समासाद्य यः कश्चिद् व्रजते द्विजः क्षेमेणोपरमेन् मार्गाद् बहुदोषो ऽपि संमतः
आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः धारणा सा तु योगस्य दुर्गेयम् अकृतात्मभिः
विषमा धारणा विप्रा यान्ति वै न शुभां गतिम् नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः
यस् तु तिष्ठति योगाधौ धारणासु यथाविधि मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते
नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् परं योगस्य पन्थानं निश्चितं तं द्विजातिषु
परं हि तद् ब्रह्ममयं मुनीन्द्रा ब्रह्माणम् ईशं वरदं च विष्णुम् भवं च धर्मं च महानुभावं यद् ब्रह्मपुत्रान् सुमहानुभावान्
तमश् च कष्टं सुमहद् रजश् च सत्त्वं च शुद्धं प्रकृतिं परां च सिद्धिं च देवीं वरुणस्य पत्नीं तेजश् च कृत्स्नं सुमहच् च धैर्यम्
ताराधिपं खे विमलं सुतारं विश्वांश् च देवान् उरगान् पितॄंश् च शैलांश् च कृत्स्नान् उदधींश् च वाचलान् नदीश् च सर्वाः सनगांश् च नागान्
साध्यांस् तथा यक्षगणान् दिशश् च गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च परस्परं प्राप्य महान् महात्मा विशेत योगी नचिराद् विमुक्तः
कथा च या विप्रवराः प्रसक्ता दैवे महावीर्यमतौ शुभेयम् योगान् स सर्वान् अनुभूय मर्त्या नारायणं तं द्रुतम् आप्नुवन्ति
सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
सांख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते
शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम् विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः
यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला
ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा
विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा महर्षिविषयांश् चैव राजर्षिविषयांस् तथा
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान्
विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः