दुर्बलश् च यथा विप्राः स्रोतसा ह्रियते नरः बलहीनस् तथा योगी विषयैर् ह्रियते च सः
तद् एव तु यथा स्रोतो विष्कम्भयति वारणः तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर् हृतः
विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः
न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः
आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत्
प्राप्नुयाद् विषयान् कश्चित् पुनश् चोग्रं तपश् चरेत् संक्षिप्येच् च पुनर् विप्राः सूर्यस् तेजोगुणान् इव
बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः विमोक्षप्रभवं विष्णुम् उपपन्नम् असंशयम्
बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर् द्विजाः
आत्मनश् च समाधाने धारणां प्रति वा द्विजाः निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम्
स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः
मुक्तस् तथायम् आत्मानं योगं तद्वत् सुनिश्चलम् करोत्य् अमलम् आत्मानं भास्करोपमदर्शने
यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः महार्णवगतां शीघ्रं नयेद् विप्रांस् तु पत्तनम्
तद्वद् आत्मसमाधानं युक्तो योगेन योगवित् दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं द्विजाः
सारथिश् च यथा युक्तः सदश्वान् सुसमाहितः देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभम्
तथैव च द्विजा योगी धारणासु समाहितः प्राप्नोत्य् आशु परं स्थानं लक्ष्यमुक्त इवाशुगः
आविश्यात्मनि चात्मानं यो ऽवतिष्ठति सो ऽचलः पाशं हत्वेव मीनानां पदम् आप्नोति सो ऽजरम्
नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः दर्शने श्रवणे वापि घ्राणे चामितविक्रमः
स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् द्विजोत्तमाः
सुशीघ्रम् अचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते
आहारान् कीदृशान् कृत्वा कानि जित्वा च सत्तम योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात्
भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः एकाहारी विशुद्धात्मा योगी बलम् अवाप्नुयात्
पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात्
अखण्डम् अपि वा मासं सततं मुनिसत्तमाः उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात्
कामं जित्वा तथा क्रोधं शीतोष्णं वर्षम् एव च भयं शोकं तथा स्वापं पौरुषान् विषयांस् तथा
अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः
दीपयन्ति महात्मानं सूक्ष्मम् आत्मानम् आत्मना वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा
दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् यः कश्चिद् व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः
यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम् श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम्