सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै
अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः
वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः
प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान्
यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर् जलम् प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः
लोभजानि तथा विप्रा बन्धनानि बलान्वितः छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम्
अचलास् त्व् आविला विप्रा वागुरासु तथापरे विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते
बलहीनाश् च विप्रेन्द्रा यथा जालं गता द्विजाः बन्धं न गच्छन्त्य् अनघा योगास् ते तु सुदुर्लभाः
यथा च शकुनाः सूक्ष्मं प्राप्य जालम् अरिंदमाः तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः
कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगपरा द्विजाः अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः
अल्पकश् च यथा विप्रा वह्निः शाम्यति दुर्बलः आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगबलः स्मृतः
स एव च तदा विप्रा वह्निर् जातबलः पुनः समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीम् इमाम्
तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत्
दुर्बलश् च यथा विप्राः स्रोतसा ह्रियते नरः बलहीनस् तथा योगी विषयैर् ह्रियते च सः
तद् एव तु यथा स्रोतो विष्कम्भयति वारणः तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर् हृतः
विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः
न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः
आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत्
प्राप्नुयाद् विषयान् कश्चित् पुनश् चोग्रं तपश् चरेत् संक्षिप्येच् च पुनर् विप्राः सूर्यस् तेजोगुणान् इव
बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः विमोक्षप्रभवं विष्णुम् उपपन्नम् असंशयम्
बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर् द्विजाः
आत्मनश् च समाधाने धारणां प्रति वा द्विजाः निदर्शनानि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम्