कारुण्येनात्मनात्मानं तृष्णां च परितोषतः उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज् जयेत्
मौनेन बहुभाषां च शौर्येण च भयं जयेत् यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा
ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
परित्यज्य निषेवेत यथावद् योगसाधनात् ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचम् आचारतः शुद्धिर् इन्द्रियाणां च संयमः एतैर् विवर्धते तेजः पाप्मानम् उपहन्ति च
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम्
अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो ह्य् अवस्थितिः एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः तथा वाक्कायमनसां नियमाः कामतो ऽव्ययाः
सांख्यं योगस्य नो विप्र विशेषं वक्तुम् अर्हसि तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम
सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै
अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः
वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः
प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान्
यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर् जलम् प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः
लोभजानि तथा विप्रा बन्धनानि बलान्वितः छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम्
अचलास् त्व् आविला विप्रा वागुरासु तथापरे विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते
बलहीनाश् च विप्रेन्द्रा यथा जालं गता द्विजाः बन्धं न गच्छन्त्य् अनघा योगास् ते तु सुदुर्लभाः
यथा च शकुनाः सूक्ष्मं प्राप्य जालम् अरिंदमाः तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः
कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगपरा द्विजाः अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः
अल्पकश् च यथा विप्रा वह्निः शाम्यति दुर्बलः आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगबलः स्मृतः
स एव च तदा विप्रा वह्निर् जातबलः पुनः समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीम् इमाम्
तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत्