तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्रदयान्वितेन दृष्ट्वा हितं प्रीतमना यदर्थं ब्रूयात् सुतस्येह यद् उक्तम् एतत्
मोक्षः पितामहेनोक्त उपायान् नानुपायतः तम् उपायं यथान्यायं श्रोतुम् इच्छामहे मुने
अस्मासु तन् महाप्राज्ञा युक्तं निपुणदर्शनम् यदुपायेन सर्वार्थान् मृगयध्वं सदानघाः
घटोपकरणे बुद्धिर् घटोत्पत्तौ न सा मता एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम्
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् एकः पन्था हि मोक्षस्य तच् छृणुध्वं ममानघाः
क्षमया क्रोधम् उच्छिन्द्यात् कामं संकल्पवर्जनात् सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति
अप्रमादाद् भयं रक्षेद् रक्षेत् क्षेत्रं च संविदम् इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् उपद्रवांस् तथा योगी हितजीर्णमिताशनात्
लोभं मोहं च संतोषाद् विषयांस् तत्त्वदर्शनात् अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया
आयत्या च जयेद् आशां सामर्थ्यं सङ्गवर्जनात् अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः
कारुण्येनात्मनात्मानं तृष्णां च परितोषतः उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज् जयेत्
मौनेन बहुभाषां च शौर्येण च भयं जयेत् यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा
ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
परित्यज्य निषेवेत यथावद् योगसाधनात् ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचम् आचारतः शुद्धिर् इन्द्रियाणां च संयमः एतैर् विवर्धते तेजः पाप्मानम् उपहन्ति च
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम्
अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो ह्य् अवस्थितिः एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः तथा वाक्कायमनसां नियमाः कामतो ऽव्ययाः
सांख्यं योगस्य नो विप्र विशेषं वक्तुम् अर्हसि तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम
सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै
अनीश्वरः कथं मुच्येद् इत्य् एवं मुनिसत्तमाः वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः
वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः
प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघाः व्रतानां धारणं तुल्यं दर्शनं त्व् असमं तयोः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान्