तां तु बुद्ध्वा नरः सर्गं भूतानाम् आगतिं गतिम् समचेष्टश् च वै सम्यग् लभते शमम् उत्तमम्
एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम्
तत्त्वं बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः
न भवति विदुषां महद् भयं यद् अविदुषां सुमहद् भयं परत्र नहि गतिर् अधिकास्ति कस्यचिद् भवति हि या विदुषः सनातनी
लोके मातरम् असूयते नरस् तत्र देवम् अनिरीक्ष्य शोचते तत्र चेत् कुशलो न शोचते ये विदुस् तद् उभयं कृताकृतम्
यत् करोत्य् अनभिसंधिपूर्वकं तच् च निन्दयति यत् पुरा कृतम् यत् प्रियं तद् उभयं न वाप्रियं तस्य तज् जनयतीह कुर्वतः
यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन यो विशिष्टश् च भूतेभ्यस् तद् भवान् प्रब्रवीतु नः
धर्मं च संप्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः सर्वतः प्रसृतानीह पिता बालान् इवात्मजान्
मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं परमं तपः विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते
तानि सर्वाणि संधाय मनःषष्ठानि मेधया आत्मतृप्तः स एवासीद् बहुचिन्त्यम् अचिन्तयन्
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम्
सर्वात्मानं महात्मानं विधूमम् इव पावकम् प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
एवम् आत्मा न जानीते क्व गमिष्ये कुतो ऽन्व् अहम् अन्यो ह्य् अस्यान्तरात्मास्ति यः सर्वम् अनुपश्यति
ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः
विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः परां बुद्धिम् अवाप्येहाप्य् अचिन्ता विगतज्वराः
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्
अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् प्रतरध्वं नदीं बुद्ध्या दुस्तराम् अकृतात्मभिः
संसारसागरगमां योनिपातालदुस्तराम् आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम्
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः
उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयाय कल्पते उत्तीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः
भूयिष्ठानीव भूतानि सर्वस्थानान् निरीक्ष्य च अक्रुध्यन्न् अप्रसीदंश् च ननृशंसमतिस् तथा
ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् एतद् धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत्
अब्रवं यद् अहं विप्रा आत्मसाक्षिकम् अञ्जसा नैव स्त्री न पुमान् एवं न चैवेदं नपुंसकम्
अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम् नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात्
यथा मतानि सर्वाणि तथैतानि यथा तथा कथितानि मया विप्रा भवन्ति न भवन्ति च