ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवांस् तदा अपयाते तदाक्रूरे नावर्षत् पाकशासनः
अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम् ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः
पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः प्रववर्ष सहस्राक्षः कक्षे जलनिधेस् तदा
कन्यां च वासुदेवाय स्वसारं शीलसंमताम् अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः
अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् सभामध्यगतः प्राह तम् अक्रूरं जनार्दनः
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः
षष्टिवर्षगते काले यो रोषो ऽभून् ममानघ स संरूढो ऽसकृत् प्राप्तस् ततः कालात्ययो महान्
स ततः कृष्णवचनात् सर्वसात्वतसंसदि प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः
ततस् तम् आर्जवात् प्राप्तं बभ्रोर् हस्ताद् अरिंदमः ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः
स कृष्णहस्तात् संप्राप्तं मणिरत्नं स्यमन्तकम् आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव
अहो सुमहद् आख्यानं भवता परिकीर्तितम् भारतानां च सर्वेषां पार्थिवानां तथैव च
देवानां दानवानां च गन्धर्वोरगरक्षसाम् दैत्यानाम् अथ सिद्धानां गुह्यकानां तथैव च
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः विविधाश् च कथा दिव्या जन्म चाग्र्यम् अनुत्तमम्
सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा
स्थावरं जङ्गमं सर्वम् उत्पन्नं विविधं जगत् त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम्
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा मनःकर्णसुखं सम्यक् प्रीणात्य् अमृतसंमितम्
इदानीं श्रोतुम् इच्छामः सकलं मण्डलं भुवः वक्तुम् अर्हसि सर्वज्ञ परं कौतूहलं हि नः
यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः वनानि सरितः पुण्यदेवादीनां महामते
यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम् संस्थानम् अस्य जगतो यथावद् वक्तुम् अर्हसि
मुनयः श्रूयताम् एतत् संक्षेपाद् वदतो मम नास्य वर्षशतेनापि वक्तुं शक्यो ऽतिविस्तरः
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश् चापरो द्विजाः कुशः क्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः
एते द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः लवणेक्षुसुरासर्पिर् दधिदुग्धजलैः समम्
जम्बूद्वीपः समस्तानाम् एतेषां मध्यसंस्थितः तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः
चतुरशीतिसाहस्रैर् योजनैस् तस्य चोच्छ्रयः प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः
मूले षोडशसाहस्रैर् विस्तारस् तस्य सर्वतः भूपद्मस्यास्य शैलो ऽसौ कर्णिकाकारसंस्थितः
हिमवान् हेमकूटश् च निषधस् तस्य दक्षिणे नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः
लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते
भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम् हरिवर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विजाः
रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् उत्तराः कुरवश् चैव यथा वै भारतं तथा
नवसाहस्रम् एकैकम् एतेषां द्विजसत्तमाः इलावृतं च तन्मध्ये सौवर्णो मेरुर् उच्छ्रितः