इन्द्रियाणां पृथग्भावाद् बुद्धिर् विकुरुते ह्य् अनु शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते
पश्यन्ती च भवेद् दृष्टी रसन्ती रसना भवेत् जिघ्रन्ती भवति घ्राणं बुद्धिर् विकुरुते पृथक्
इन्द्रियाणि तु तान्य् आहुस् तेषां वृत्त्या वितिष्ठति तिष्ठति पुरुषे बुद्धिर् बुद्धिभावव्यवस्थिता
कदाचिल् लभते प्रीतिं कदाचिद् अपि शोचति न सुखेन च दुःखेन कदाचिद् इह मुह्यते
स्वयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते सरितां सागरो भर्ता महावेलाम् इवोर्मिमान्
यदा प्रार्थयते किंचित् तदा भवति सा मनः अधिष्ठाने च वै बुद्ध्या पृथग् एतानि संस्मरेत्
इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः सर्वाण्य् एवानुपूर्वेण यद् यदा च विधीयते
अविभागमना बुद्धिर् भावो मनसि वर्तते प्रवर्तमानस् तु रजः सत्त्वम् अप्य् अतिवर्तते
ये वै भावेन वर्तन्ते सर्वेष्व् एतेषु ते त्रिषु अन्व् अर्थान् संप्रवर्तन्ते रथनेमिम् अरा इव
प्रदीपार्थं मनः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया
एवंस्वभावम् एवेदम् इति बुद्ध्वा न मुह्यति अशोचन् संप्रहृष्यंश् च नित्यं विगतमत्सरः
न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः प्रवर्तमानैर् अनेकैर् दुर्धरैर् अकृतात्मभिः
तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति तदा प्रकाशते श्यात्मा दीपदीप्ता यथाकृतिः
सर्वेषाम् एव भूतानां तमस्य् उपगते यथा प्रकाशं भवते सर्वं तथैवम् उपधार्यताम्
यथा वारिचरः पक्षी न लिप्यति जले चरन् विमुक्तात्मा तथा योगी गुणदोषैर् न लिप्यते
एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन् असज्जमानः सर्वेषु न कथंचित् प्रलिप्यते
त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः
स्वयम् आत्मा प्रसवति गुणेष्व् अपि कदाचन न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा
परिदध्याद् गुणानां स द्रष्टा चैव यथातथम् सत्त्वक्षेत्रज्ञयोर् एवम् अन्तरं लक्षयेन् नरः
सृजते तु गुणान् एक एको न सृजते गुणान् पृथग्भूतौ प्रकृत्यैतौ संप्रयुक्तौ च सर्वदा
यथाश्मना हिरण्यस्य संप्रयुक्तौ तथैव तौ मशकोदुम्बरौ वापि संप्रयुक्तौ यथा सह
इषिका वा यथा मुञ्जे पृथक् च सह चैव ह तथैव सहिताव् एतौ अन्योन्यस्मिन् प्रतिष्ठितौ
सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अधितिष्ठति गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः
स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् ऊर्णनाभिर् यथा सूत्रं सृजते तद् गुणांस् तथा
प्रवृत्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते एवम् एके व्यवस्यन्ति निवृत्तिम् इति चापरे
उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति अनेनैव विधानेन भवेद् वै संशयो महान्
अनादिनिधनो ह्य् आत्मा तं बुद्ध्वा विहरेन् नरः अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः
इत्य् एवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् अनित्यं सुखम् आसीनम् अशोच्यं छिन्नसंशयः
तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः अवगाह्य च विद्वांसो विप्रा लोलम् इमं तथा
न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् एवं विचिन्त्य चात्मानं केवलं ज्ञानम् आत्मनः