न तर्कशास्त्रदग्धाय तथैव पिशुनाय च श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने
इदं प्रियाय पुत्राय शिष्यायानुगताय तु रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन
यद् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः इदम् एव ततः श्रेय इति मन्येत तत्त्ववित्
अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम् यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते
तद् युष्मभ्यं प्रयच्छामि यन् मां पृच्छत सत्तमाः यन् मे मनसि वर्तेत यस् तु वो हृदि संशयः श्रुतं भवद्भिस् तत् सर्वं किम् अन्यत् कथयामि वः
अध्यात्मं विस्तरेणेह पुनर् एव वदस्व नः यद् अध्यात्मं यथा विद्मो भगवन्न् ऋषिसत्तम
अध्यात्मं यद् इदं विप्राः पुरुषस्येह पठ्यते युष्मभ्यं कथयिष्यामि तस्य व्याख्यावधार्यताम्
भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च महाभूतानि यश् चैव सर्वभूतेषु भूतकृत्
आकारं तु भवेद् यस्य यस्मिन् देहं न पश्यति आकाशाद्यं शरीरेषु कथं तद् उपवर्णयेत् इन्द्रियाणां गुणाः केचित् कथं तान् उपलक्षयेत्
एतद् वो वर्णयिष्यामि यथावद् अनुदर्शनम् शृणुध्वं तद् इहैकाग्र्या यथातत्त्वं यथा च तत्
शब्दः श्रोत्रं तथा खानि त्रयम् आकाशलक्षणम् प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः
रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते रसो ऽथ रसनं स्वेदो गुणास् त्व् एते त्रयो ऽम्भसाम्
घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः
वायोः स्पर्शो रसो ऽद्भ्यश् च ज्योतिषो रूपम् उच्यते आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः
मनो बुद्धिः स्वभावश् च गुणा एते स्वयोनिजाः ते गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः
यथा कूर्म इवाङ्गानि प्रसार्य संनियच्छति एवम् एवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति
यद् ऊर्ध्वं पादतलयोर् अवार्कोर्ध्वं च पश्यति एतस्मिन्न् एव कृत्ये सा वर्तते बुद्धिर् उत्तमा
गुणैस् तु नीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि मनःषष्ठानि सर्वाणि बुद्ध्या भावात् कुतो गुणाः
इन्द्रियाणि नरैः पञ्च षष्ठं तन् मन उच्यते सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं विद्धि चाष्टमम्
चक्षुर् आलोकनायैव संशयं कुरुते मनः बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः समाः सर्वेषु भूतेषु तान् गुणान् उपलक्षयेत्
तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् प्रशान्तम् इव संयुक्तं सत्त्वं तद् उपधारयेत्
यत् तु संतापसंयुक्तं काये मनसि वा भवेत् प्रवृत्तं रज इत्य् एवं तत्र चाप्य् उपलक्षयेत्
यत् तु संमोहसंयुक्तम् अव्यक्तं विषमं भवेत् अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्
प्रहर्षः प्रीतिर् आनन्दं स्वाम्यं स्वस्थात्मचित्तता अकस्माद् यदि वा कस्माद् वदन्ति सात्त्विकान् गुणान्
अभिमानो मृषावादो लोभो मोहस् तथाक्षमा लिङ्गानि रजसस् तानि वर्तन्ते हेतुतत्त्वतः
तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता कथंचिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः
मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी हृदयं प्रियम् एवेह त्रिविधा कर्मचोदना
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परः स्मृतः
बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनायिका यदा विकुरुते भावं तदा भवति सा मनः