कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः विद्यया जायते नित्यम् अव्यक्तं ह्य् अक्षरात्मकम्
कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धिरता नराः तेन ते देहजालेन रमयन्त उपासते
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव
कर्मणां फलम् आप्नोति सुखदुःखे भवाभवौ विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति
न म्रियते यत्र गत्वा यत्र गत्वा न जायते न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
यत्र तद् ब्रह्म परमम् अव्यक्तम् अचलं ध्रुवम् अव्याकृतम् अनायामम् अमृतं चाधियोगवित्
द्वंद्वैर् न यत्र बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः
विद्यामयो ऽन्यः पुरुषो द्विजाः कर्ममयो ऽपरः विप्राश् चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः
तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते न वक्तुं शक्यते द्रष्टुं चक्रतन्तुम् इवाम्बरे
एकादशविकारात्मा कलासंभारसंभृतः मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम्
देवो यः संश्रितस् तस्मिन् बुद्धीन्दुर् इव पुष्करे क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम्
तमो रजश् च सत्त्वं च ज्ञेयं जीवगुणात्मकम् जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः
सचेतनं जीवगुणं वदन्ति स चेष्टते जीवगुणं च सर्वम् ततः परं क्षेत्रविदो वदन्ति प्रकल्पयन्तो भुवनानि सप्त
प्रकृत्यास् तु विकारा ये क्षेत्रज्ञास् ते परिश्रुताः ते चैनं न प्रजानन्ति न जानाति स तान् अपि
तैश् चैव कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः सुदान्तैर् इव संयन्ता दृढः परमवाजिभिः
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः
महतः परम् अव्यक्तम् अव्यक्तात् परतो ऽमृतम् अमृतान् न परं किंचित् सा काष्ठा परमा गतिः
एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
अन्तरात्मनि संलीय मनःषष्ठानि मेधया इन्द्रियैर् इन्द्रियार्थांश् च बहुचित्तम् अचिन्तयन्
ध्याने ऽपि परमं कृत्वा विद्यासंपादितं मनः अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम्
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः आत्मनः संप्रदानेन मर्त्यो मृत्युम् उपाश्नुते
विहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत्
चित्तप्रसादेन यतिर् जहातीह शुभाशुभम् प्रसन्नात्मात्मनि स्थित्वा सुखम् अत्यन्तम् अश्नुते
लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् निर्वाते वा यथा दीपो दीप्यमानो न कम्पते
एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि
रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम् आत्मप्रत्यायकं शास्त्रम् इदं पुत्रानुशासनम्
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु दशवर्षसहस्राणि निर्मथ्यामृतम् उद्धृतम्
नवनीतं यथा दध्नः काष्ठाद् अग्निर् यथैव च तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम्
स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम् तद् इदं नाप्रशान्ताय नादान्ताय तपस्विने
नावेदविदुषे वाच्यं तथा नानुगताय च नासूयकायानृजवे न चानिर्दिष्टकारिणे