आसीनो हि रहस्य् एको गच्छेद् अक्षरसाम्यताम् प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने
अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः प्रतिभान् उपसर्गाश् च प्रतिसंगृह्य योगतः
तांस् तत्त्वविद् अनादृत्य साम्येनैव निवर्तयेत् कुर्यात् परिचयं योगे त्रैलोक्ये नियतो मुनिः
गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव
एकाग्रं चिन्तयेन् नित्यं योगान् नोद्विजते मनः येनोपायेन शक्येत नियन्तुं चञ्चलं मनः
तत्र युक्तो निषेवेत न चैव विचलेत् ततः शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत्
नातिव्रजेत् परं वाचा कर्मणा मनसापि वा उपेक्षको यताहारो लब्धालब्धसमो भवेत्
यश् चैनम् अभिनन्देत यश् चैनम् अभिवादयेत् समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम्
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः
एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः षण् मासान् नित्ययुक्तस्य शब्दब्रह्माभिवर्तते
वेदनार्तान् परान् दृष्ट्वा समलोष्टाश्मकाञ्चनः एवं तु निरतो मार्गं विरमेन् न विमोहितः
अपि वर्णावकृष्टस् तु नारी वा धर्मकाङ्क्षिणी ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम्
अजं पुराणम् अजरं सनातनं यम् इन्द्रियातिगम् अगोचरं द्विजाः अवेक्ष्य चेमां परमेष्ठिसाम्यतां प्रयान्त्य् अनावृत्तिगतिं मनीषिणः
यद्य् एवं वेदवचनं कुरु कर्म त्यजेति च कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
एतद् वै श्रोतुम् इच्छामस् तद् भवान् प्रब्रवीतु नः एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः
शृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ
यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा शृणुध्वं सांप्रतं विप्रा गहनं ह्य् एतद् उत्तरम्
अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् यक्षस्य सादृश्यम् इदं यक्षस्येदं भवेद् अथ
द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः
कर्मणा बध्यते जन्तुर् विद्यया च विमुच्यते तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः
कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः विद्यया जायते नित्यम् अव्यक्तं ह्य् अक्षरात्मकम्
कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धिरता नराः तेन ते देहजालेन रमयन्त उपासते
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव
कर्मणां फलम् आप्नोति सुखदुःखे भवाभवौ विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति
न म्रियते यत्र गत्वा यत्र गत्वा न जायते न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
यत्र तद् ब्रह्म परमम् अव्यक्तम् अचलं ध्रुवम् अव्याकृतम् अनायामम् अमृतं चाधियोगवित्
द्वंद्वैर् न यत्र बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः
विद्यामयो ऽन्यः पुरुषो द्विजाः कर्ममयो ऽपरः विप्राश् चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः
तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते न वक्तुं शक्यते द्रष्टुं चक्रतन्तुम् इवाम्बरे
एकादशविकारात्मा कलासंभारसंभृतः मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम्