नास्तीति कृष्णश् चोवाच ततो रामो रुषान्वितः धिक्शब्दपूर्वम् असकृत् प्रत्युवाच जनार्दनम्
भ्रातृत्वान् मर्षयाम्य् एष स्वस्ति ते ऽस्तु व्रजाम्य् अहम् कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
प्रविवेश ततो रामो मिथिलाम् अरिमर्दनः सर्वकामैर् उपहृतैर् मिथिलेनाभिपूजितः
एतस्मिन्न् एव काले तु बभ्रुर् मतिमतां वरः नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान्
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः
अथ रत्नानि चान्यानि धनानि विविधानि च षष्टिं वर्षाणि धर्मात्मा यज्ञेष्व् एव न्ययोजयत्
अक्रूरयज्ञा इति ते ख्यातास् तस्य महात्मनः बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान्
संप्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः आनीतो द्वारकाम् एव कृष्णेन च महात्मना
अक्रूरश् चान्धकैः सार्धम् आयातः पुरुषर्षभः हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः
ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवांस् तदा अपयाते तदाक्रूरे नावर्षत् पाकशासनः
अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम् ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः
पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः प्रववर्ष सहस्राक्षः कक्षे जलनिधेस् तदा
कन्यां च वासुदेवाय स्वसारं शीलसंमताम् अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः
अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् सभामध्यगतः प्राह तम् अक्रूरं जनार्दनः
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः
षष्टिवर्षगते काले यो रोषो ऽभून् ममानघ स संरूढो ऽसकृत् प्राप्तस् ततः कालात्ययो महान्
स ततः कृष्णवचनात् सर्वसात्वतसंसदि प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः
ततस् तम् आर्जवात् प्राप्तं बभ्रोर् हस्ताद् अरिंदमः ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः
स कृष्णहस्तात् संप्राप्तं मणिरत्नं स्यमन्तकम् आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव
अहो सुमहद् आख्यानं भवता परिकीर्तितम् भारतानां च सर्वेषां पार्थिवानां तथैव च
देवानां दानवानां च गन्धर्वोरगरक्षसाम् दैत्यानाम् अथ सिद्धानां गुह्यकानां तथैव च
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः विविधाश् च कथा दिव्या जन्म चाग्र्यम् अनुत्तमम्
सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा
स्थावरं जङ्गमं सर्वम् उत्पन्नं विविधं जगत् त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम्
कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा मनःकर्णसुखं सम्यक् प्रीणात्य् अमृतसंमितम्
इदानीं श्रोतुम् इच्छामः सकलं मण्डलं भुवः वक्तुम् अर्हसि सर्वज्ञ परं कौतूहलं हि नः
यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः वनानि सरितः पुण्यदेवादीनां महामते
यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम् संस्थानम् अस्य जगतो यथावद् वक्तुम् अर्हसि
मुनयः श्रूयताम् एतत् संक्षेपाद् वदतो मम नास्य वर्षशतेनापि वक्तुं शक्यो ऽतिविस्तरः