न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः न मध्ये प्रतिगृह्णीते नैव किंचिन् न कश्चन
सर्वे तत्स्था इमे लोका बाह्यम् एषां न किंचन यद्य् अप्य् अग्रे समागच्छेद् यथा बाणो गुणच्युतः
नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा
सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते
अक्षरं च क्षरं चैव द्वेधा भावो ऽयम् आत्मनः क्षरः सर्वेषु भूतेषु दिव्यं त्व् अमृतम् अक्षरम्
नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च
हानेनाभिविकल्पानां नराणां संचयेन च शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः
हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी
भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः सांख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया
योगकृत्यं तु भो विप्राः कीर्तयिष्याम्य् अतः परम् एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः
आत्मनो व्यापिनो ज्ञानं ज्ञानम् एतद् अनुत्तमम् तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् क्रोधं शमेन जयति कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्
एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः अग्नींश् च ब्राह्मणांश् चाथ देवताः प्रणमेत् सदा
वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् ब्रह्मतेजोमयं शुक्रं यस्य सर्वम् इदं जगत्
एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचं चैवात्मनः शुद्धिर् इन्द्रियाणां च निग्रहः एतैर् विवर्धते तेजः पाप्मानं चापकर्षति
समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन् धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निषेवेद् ब्रह्मणः पदम् मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः
पूर्वरात्रे परार्धे च धारयेन् मन आत्मनः जन्तोः पञ्चेन्द्रियस्यास्य यद्य् एकं क्लिन्नम् इन्द्रियम्
ततो ऽस्य स्रवति प्रज्ञा गिरेः पादाद् इवोदकम् मनसः पूर्वम् आदद्यात् कूर्माणाम् इव मत्स्यहा
ततः श्रोत्रं ततश् चक्षुर् जिह्वा घ्राणं च योगवित् तत एतानि संयम्य मनसि स्थापयेद् यदि
तथैवापोह्य संकल्पान् मनो ह्य् आत्मनि धारयेत् पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद् यदि
यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते
विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान् वैद्युतो ऽग्निर् इवाकाशे पश्यन्त्य् आत्मानम् आत्मनि
सर्वं तत्र तु सर्वत्र व्यापकत्वाच् च दृश्यते तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः एवं परिमितं कालम् आचरन् संशितव्रतः