न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते
अशब्दस्पर्शरूपं तच् चारसागन्धम् अव्ययम् अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्
अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः
विद्याविनयसंपन्नब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम्
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा
यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि य एवं सततं वेद सो ऽमृतत्वाय कल्पते
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
शकुन्तानाम् इवाकाशे मत्स्यानाम् इव चोदके यथा गतिर् न दृश्येत तथा ज्ञानविदां गतिः
कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि यस्मिंस् तु पच्यते कालस् तन् न वेदेह कश्चन
न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः न मध्ये प्रतिगृह्णीते नैव किंचिन् न कश्चन
सर्वे तत्स्था इमे लोका बाह्यम् एषां न किंचन यद्य् अप्य् अग्रे समागच्छेद् यथा बाणो गुणच्युतः
नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा
सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते
अक्षरं च क्षरं चैव द्वेधा भावो ऽयम् आत्मनः क्षरः सर्वेषु भूतेषु दिव्यं त्व् अमृतम् अक्षरम्
नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च
हानेनाभिविकल्पानां नराणां संचयेन च शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः
हंसोक्तं च क्षरं चैव कूटस्थं यत् तद् अक्षरम् तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी
भवतां पृच्छतां विप्रा यथावद् इह तत्त्वतः सांख्यं ज्ञानेन संयुक्तं यद् एतत् कीर्तितं मया
योगकृत्यं तु भो विप्राः कीर्तयिष्याम्य् अतः परम् एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः
आत्मनो व्यापिनो ज्ञानं ज्ञानम् एतद् अनुत्तमम् तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् क्रोधं शमेन जयति कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्
एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः अग्नींश् च ब्राह्मणांश् चाथ देवताः प्रणमेत् सदा
वर्जयेद् उद्धतां वाचं हिंसायुक्तां मनोनुगाम् ब्रह्मतेजोमयं शुक्रं यस्य सर्वम् इदं जगत्
एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचं चैवात्मनः शुद्धिर् इन्द्रियाणां च निग्रहः एतैर् विवर्धते तेजः पाप्मानं चापकर्षति