नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः
रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम्
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित्
मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम् संत्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते समाधौ योगयुक्तस्य तदाभ्येति परं पदम्
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा
इन्द्रियाणि न सेवेत वैराग्येण च योगवित् सदा चाभ्यासयोगेन मुच्यते नात्र संशयः
न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् मनसश् चेन्द्रियाणां च संयोगो योग उच्यते
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः संसारमोक्षहेतुश् च किम् अन्यच् छ्रोतुम् इच्छथ
श्रुत्वा ते वचनं तस्य साधु साध्व् इति चाब्रुवन् व्यासं प्रशस्य संपूज्य पुनः प्रष्टुं समुद्यताः
तव वक्त्राब्धिसंभूतम् अमृतं वाङ्मयं मुने पिबतां नो द्विजश्रेष्ठ न तृप्तिर् इह दृश्यते
तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् सांख्यं च द्विपदां श्रेष्ठ श्रोतुम् इच्छामहे वयम्
प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञो ऽनसूयकः सत्यधर्ममतिर् ब्रह्मन् कथं ब्रह्माधिगच्छति
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः
मनसश् चेन्द्रियाणां च यथैकाग्र्यम् अवाप्यते येनोपायेन पुरुषस् तत् त्वं व्याख्यातुम् अर्हसि
नान्यत्र ज्ञानतपसोर् नान्यत्रेन्द्रियनिग्रहात् नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु
भूमेर् देहो जलात् स्नेहो ज्योतिषश् चक्षुषी स्मृते प्राणापानाश्रयो वायुः कोष्ठाआकाशं शरीरिणाम्
क्रान्तौ विष्णुर् बले शक्रः कोष्ठे ऽग्निर् भोक्तुम् इच्छति कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती
कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी दश तानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस् तु नित्यदा
इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः
इन्द्रियाणां तथैवैषां सर्वेषाम् ईश्वरं मनः नियमे च विसर्गे च भूतात्मा मनसस् तथा
इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम्
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः सत्त्वं हि तेजः सृजति न गुणान् वै कथंचन
एवं सप्तदशं देहं वृतं षोडशभिर् गुणैः मनीषी मनसा विप्राः पश्यत्य् आत्मानम् आत्मनि