न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे सरीसृपे श्मशाने च न नद्यन्ते ऽग्निसंनिधौ
न चैत्ये न च वल्मीके सभये कूपसंनिधौ न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित्
देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः
बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता ज्वरश् च जायते सद्यस् तद्वद् अज्ञानसंभवः
तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे शून्यागारे शुचौ रम्ये चैकान्ते देवतालये
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः
रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम्
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित्
मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम् संत्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते समाधौ योगयुक्तस्य तदाभ्येति परं पदम्
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा
इन्द्रियाणि न सेवेत वैराग्येण च योगवित् सदा चाभ्यासयोगेन मुच्यते नात्र संशयः
न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् मनसश् चेन्द्रियाणां च संयोगो योग उच्यते
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः संसारमोक्षहेतुश् च किम् अन्यच् छ्रोतुम् इच्छथ
श्रुत्वा ते वचनं तस्य साधु साध्व् इति चाब्रुवन् व्यासं प्रशस्य संपूज्य पुनः प्रष्टुं समुद्यताः
तव वक्त्राब्धिसंभूतम् अमृतं वाङ्मयं मुने पिबतां नो द्विजश्रेष्ठ न तृप्तिर् इह दृश्यते
तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् सांख्यं च द्विपदां श्रेष्ठ श्रोतुम् इच्छामहे वयम्
प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञो ऽनसूयकः सत्यधर्ममतिर् ब्रह्मन् कथं ब्रह्माधिगच्छति
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः
मनसश् चेन्द्रियाणां च यथैकाग्र्यम् अवाप्यते येनोपायेन पुरुषस् तत् त्वं व्याख्यातुम् अर्हसि
नान्यत्र ज्ञानतपसोर् नान्यत्रेन्द्रियनिग्रहात् नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन