समस्तकल्याणगुणात्मको हि स्वशक्तिलेशादृतभूतसर्गः इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ
तेजोबलैश्वर्यमहावरोधः स्ववीर्यशक्त्यादिगुणैकराशिः परः पराणां सकला न यत्र क्लेशादयः सन्ति परापरेशे
स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः
संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम् संदृश्यते वाप्य् अथ गम्यते वा तज् ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम्
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम्
श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस् तदा अब्रवीत् परमप्रीतो योगी योगविदां वरः
योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् यम् अभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम्
श्रुत्वादौ योगशास्त्राणि गुरुम् आराध्य भक्तितः इतिहासं पुराणं च वेदांश् चैव विचक्षणः
आहारं योगदोषांश् च देशकालं च बुद्धिमान् ज्ञात्वा समभ्यसेद् योगं निर्द्वंद्वो निष्परिग्रहः
भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः यावकं कणपिण्याकम् आहारं योगसाधनम्
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे सरीसृपे श्मशाने च न नद्यन्ते ऽग्निसंनिधौ
न चैत्ये न च वल्मीके सभये कूपसंनिधौ न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित्
देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः
बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता ज्वरश् च जायते सद्यस् तद्वद् अज्ञानसंभवः
तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा धर्मार्थकाममोक्षाणां शरीरं साधनं यतः
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे शून्यागारे शुचौ रम्ये चैकान्ते देवतालये
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः प्रणवं दीर्घम् उद्यम्य संवृतास्यः सुनिश्चलः
रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम्
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् क्षेत्रज्ञश् च परे योज्यस् ततो युञ्जति योगवित्
मनो यस्यान्तम् अभ्येति परमात्मनि चञ्चलम् संत्यज्य विषयांस् तस्य योगसिद्धिः प्रकाशिता
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते समाधौ योगयुक्तस्य तदाभ्येति परं पदम्
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु भवत्य् आनन्दम् आसाद्य तदा निर्वाणम् ऋच्छति
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः सर्वत्रानित्यबुद्धिस् तु योगी मुच्येत नान्यथा