क्लेशाद् उत्क्रान्तिम् आप्नोति याम्यकिंकरपीडितः ततश् च यातनादेहं क्लेशेन प्रतिपद्यते
एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम् शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर् मृतैः
याम्यकिंकरपाशादिग्रहणं दण्डताडनम् यमस्य दर्शनं चोग्रम् उग्रमार्गविलोकनम्
करम्भवालुकावह्नियन्त्रशस्त्रादिभीषणे प्रत्येकं यातनायाश् च यातनादि द्विजोत्तमाः
क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम्
शूलेष्व् आरोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् गृध्रैः संभक्ष्यमाणानां द्वीपिभिश् चोपभुज्यताम्
क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः
नरके यानि दुःखानि पापहेतूद्भवानि वै प्राप्यन्ते नारकैर् विप्रास् तेषां संख्या न विद्यते
न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः स्वर्गे ऽपि पातभीतस्य क्षयिष्णोर् नास्ति निर्वृतिः
पुनश् च गर्भो भवति जायते च पुनर् नरः गर्भे विलीयते भूयो जायमानो ऽस्तम् एति च
जातमात्रश् च म्रियते बालभावे च यौवने यद् यत् प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते
तद् एव दुःखवृक्षस्य बीजत्वम् उपगच्छति कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः
क्रियते न तथा भूरि सुखं पुंसां यथासुखम् इति संसारदुःखार्कतापतापितचेतसाम्
विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः निरस्तातिशयाह्लादं सुखभावैकलक्षणम्
भेषजं भगवत्प्राप्तिर् एका चात्यन्तिकी मता तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः
तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं द्विजोत्तमाः आगमोत्थं विवेकाच् च द्विधा ज्ञानं तथोच्यते
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम्
यथा सूर्यस् तथा ज्ञानं यद् वै विप्रा विवेकजम् मनुर् अप्य् आह वेदार्थं स्मृत्वा यन् मुनिसत्तमाः
तद् एतच् छ्रूयताम् अत्र संबन्धे गदतो मम द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः
परया ह्य् अक्षरप्राप्तिर् ऋग्वेदादिमयापरा यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम्
अनिर्देश्यम् अरूपं च पाणिपादाद्यसंयुतम् वित्तं सर्वगतं नित्यं भूतयोनिम् अकारणम्
व्याप्यं व्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः तद् ब्रह्म परमं धाम तद् धेयं मोक्षकाङ्क्षिभिः
श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम्
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य् अशेषतः
भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः सर्वाणि तत्र भूतानि निवसन्ति परात्मनि
भूतेषु च स सर्वात्मा वासुदेवस् ततः स्मृतः उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः
नामव्याख्याम् अनन्तस्य वासुदेवस्य तत्त्वतः भूतेषु वसते यो ऽन्तर् वसन्त्य् अत्र च तानि यत् धाता विधाता जगतां वासुदेवस् ततः प्रभुः
स सर्वभूतप्रकृतिर् गुणांश् च दोषांश् च सर्वान् सगुणो ह्य् अतीतः अतीतसर्वावरणो ऽखिलात्मा तेनावृतं यद् भुवनान्तरालम्