केन बन्धेन बद्धो ऽहं कारणं किम् अकारणम् किं कार्यं किम् अकार्यं वा किं वाच्यं किं न चोच्यते
को धर्मः कश् च वाधर्मः कस्मिन् वर्तेत वै कथम् किं कर्तव्यम् अकर्तव्यं किं वा किं गुणदोषवत्
एवं पशुसमैर् मूढैर् अज्ञानप्रभवं महत् अवाप्यते नरैर् दुःखं शिश्नोदरपरायणैः
अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः अज्ञानिनां प्रवर्तन्ते कर्मलोपस् ततो द्विजाः
नरकं कर्मणां लोपात् फलम् आहुर् महर्षयः तस्माद् अज्ञानिनां दुःखम् इह चामुत्र चोत्तमम्
जराजर्जरदेहश् च शिथिलावयवः पुमान् विचलच्छीर्णदशनो वलिस्नायुशिरावृतः
दूरप्रनष्टनयनो व्योमान्तर्गततारकः नासाविवरनिर्यातरोमपुञ्जश् चलद्वपुः
प्रकटीभूतसर्वास्थिर् नतपृष्ठास्थिसंहतिः उत्सन्नजठराग्नित्वाद् अल्पाहारो ऽल्पचेष्टितः
कृच्छ्रचङ्क्रमणोत्थानशयनासनचेष्टितः मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः
अनायत्तैः समस्तैश् च करणैर् मरणोन्मुखः तत्क्षणे ऽप्य् अनुभूतानाम् अस्मर्ताखिलवस्तुनाम्
सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः श्वासकासामयायाससमुद्भूतप्रजागरः
अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी भृत्यात्मपुत्रदाराणाम् अपमानपराकृतः
प्रक्षीणाखिलशौचश् च विहाराहारसंस्पृहः हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः
अनुभूतम् इवान्यस्मिञ् जन्मन्य् आत्मविचेष्टितम् संस्मरन् यौवने दीर्घं निश्वसित्य् अतितापितः
एवमादीनि दुःखानि जरायाम् अनुभूय च मरणे यानि दुःखानि प्राप्नोति शृणु तान्य् अपि
श्लथग्रीवाङ्घ्रिहस्तो ऽथ प्राप्तो वेपथुना नरः मुहुर् ग्लानिपरश् चासौ मुहुर् ज्ञानबलान्वितः
हिरण्यधान्यतनयभार्याभृत्यगृहादिषु एते कथं भविष्यन्तीत्य् अतीव ममताकुलः
मर्मविद्भिर् महारोगैः क्रकचैर् इव दारुणैः शरैर् इवान्तकस्योग्रैश् छिद्यमानास्थिबन्धनः
परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते
निरुद्धकण्ठदेशो ऽपि उदानश्वासपीडितः तापेन महता व्याप्तस् तृषा व्याप्तस् तथा क्षुधा
क्लेशाद् उत्क्रान्तिम् आप्नोति याम्यकिंकरपीडितः ततश् च यातनादेहं क्लेशेन प्रतिपद्यते
एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम् शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर् मृतैः
याम्यकिंकरपाशादिग्रहणं दण्डताडनम् यमस्य दर्शनं चोग्रम् उग्रमार्गविलोकनम्
करम्भवालुकावह्नियन्त्रशस्त्रादिभीषणे प्रत्येकं यातनायाश् च यातनादि द्विजोत्तमाः
क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम्
शूलेष्व् आरोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् गृध्रैः संभक्ष्यमाणानां द्वीपिभिश् चोपभुज्यताम्
क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः
नरके यानि दुःखानि पापहेतूद्भवानि वै प्राप्यन्ते नारकैर् विप्रास् तेषां संख्या न विद्यते
न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः स्वर्गे ऽपि पातभीतस्य क्षयिष्णोर् नास्ति निर्वृतिः
पुनश् च गर्भो भवति जायते च पुनर् नरः गर्भे विलीयते भूयो जायमानो ऽस्तम् एति च