ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ
यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते
निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः ह्रस्वदीर्घप्लुतैर् यत् तु किंचिद् वस्त्व् अभिधीयते
यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः व्यक्तः स एवम् अव्यक्तः स एव पुरुषो ऽव्ययः
परमात्मा च विश्वात्मा विश्वरूपधरो हरिः व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते
पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः
तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा
तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः नैवाहस् तस्य च निशा नित्यस्य परमात्मनः
उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम्
आध्यात्मिको ऽपि द्विविधः शारीरो मानसस् तथा शारीरो बहुभिर् भेदैर् भिद्यते श्रूयतां च सः
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिर् अनेकधा
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हथ
कामक्रोधभयद्वेषलोभमोहविषादजः शोकासूयावमानेर्ष्यामात्सर्याभिभवस् तथा
मानसो ऽपि द्विजश्रेष्ठास् तापो भवति नैकधा इत्य् एवमादिभिर् भेदैस् तापो ह्य् आध्यात्मिकः स्मृतः
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः सरीसृपाद्यैश् च नृणां जन्यते चाधिभौतिकः
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः
गर्भजन्मजराज्ञानमृत्युनारकजं तथा दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तमाः
सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः
अत्यम्लकटुतीक्ष्णोष्णलवणैर् मातृभोजनैः अतितापिभिर् अत्यर्थं बाध्यमानो ऽतिवेदनः
प्रसारणाकुञ्चनादौ नागानां प्रभुर् आत्मनः शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः
निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः
अधोमुखस् तैः क्रियते प्रबलैः सूतिमारुतैः क्लेशैर् निष्क्रान्तिम् आप्नोति जठरान् मातुर् आतुरः
मूर्छाम् अवाप्य महतीं संस्पृष्टो बाह्यवायुना विज्ञानभ्रंशम् आप्नोति जातस् तु मुनिसत्तमाः
कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा
कण्डूयने ऽपि चाशक्तः परिवर्ते ऽप्य् अनीश्वरः स्तनपानादिकाहारम् अवाप्नोति परेच्छया
अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस् तथा भक्ष्यमाणो ऽपि नैवैषां समर्थो विनिवारणे
जन्मदुःखान्य् अनेकानि जन्मनो ऽनन्तराणि च बालभावे यदाप्नोति आधिभूतादिकानि च
अज्ञानतमसा छन्नो मूढान्तःकरणो नरः न जानाति कुतः को ऽहं कुत्र गन्ता किमात्मकः