सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् उदकावरणं ह्य् अत्र ज्योतिषा पीयते तु तत्
ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः आकाशं चैव भूतादिर् ग्रसते तं तथा महान्
महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजाः गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च द्विजोत्तमाः
प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी
व्यक्तस्वरूपम् अव्यक्ते तस्यां विप्राः प्रलीयते एकः शुद्धो ऽक्षरो नित्यः सर्वव्यापी तथा पुनः
सो ऽप्य् अंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे स ब्रह्म तत् परं धाम परमात्मा परेश्वरः
स विष्णुः सर्वम् एवेदं यतो नावर्तते पुनः प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी
पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि परमात्मा च सर्वेषाम् आधारः परमेश्वरः
विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्
ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ
यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते
निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः ह्रस्वदीर्घप्लुतैर् यत् तु किंचिद् वस्त्व् अभिधीयते
यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः व्यक्तः स एवम् अव्यक्तः स एव पुरुषो ऽव्ययः
परमात्मा च विश्वात्मा विश्वरूपधरो हरिः व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते
पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः
तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा
तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः नैवाहस् तस्य च निशा नित्यस्य परमात्मनः
उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम्
आध्यात्मिको ऽपि द्विविधः शारीरो मानसस् तथा शारीरो बहुभिर् भेदैर् भिद्यते श्रूयतां च सः
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिर् अनेकधा
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हथ
कामक्रोधभयद्वेषलोभमोहविषादजः शोकासूयावमानेर्ष्यामात्सर्याभिभवस् तथा
मानसो ऽपि द्विजश्रेष्ठास् तापो भवति नैकधा इत्य् एवमादिभिर् भेदैस् तापो ह्य् आध्यात्मिकः स्मृतः
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः सरीसृपाद्यैश् च नृणां जन्यते चाधिभौतिकः
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः
गर्भजन्मजराज्ञानमृत्युनारकजं तथा दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तमाः
सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः
अत्यम्लकटुतीक्ष्णोष्णलवणैर् मातृभोजनैः अतितापिभिर् अत्यर्थं बाध्यमानो ऽतिवेदनः