तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम् चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम्
स कल्पस् तत्र मनवश् चतुर्दश द्विजोत्तमाः तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः
तस्य स्वरूपम् अत्युग्रं द्विजेन्द्रा गदतो मम शृणुध्वं प्राकृतं भूयस् ततो वक्ष्याम्य् अहं लयम्
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी
ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अनेकशः क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्य् अतिपीडनात्
ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः
ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तमाः
पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै शोषं नयति भो विप्राः समस्तं पृथिवीतलम्
समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम्
ततस् तस्याप्य् अभावेन तोयाहारोपबृंहिताः सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः
अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विजाः
दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं दीप्तभास्करैः साद्रिनगार्णवाभोगं निःस्नेहम् अभिजायते
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विजाः भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः
ततः कालाग्निरुद्रो ऽसौ भूतसर्गहरो हरः शेषाहिश्वाससंतापात् पातालानि दहत्य् अधः
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् भूमिम् अभ्येत्य सकलं दग्ध्वा तु वसुधातलम्
भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ज्वालामालामहावर्तस् तत्रैव परिवर्तते
अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा ज्वालावर्तपरीवारम् उपक्षीणबलास् ततः
ततस् तापपरीतास् तु लोकद्वयनिवासिनः हृतावकाशा गच्छन्ति महर्लोकं द्विजास् तदा
तस्माद् अपि महातापतप्ता लोकास् ततः परम् गच्छन्ति जनलोकं ते दशावृत्या परैषिणः
ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः
ततो गजकुलप्रख्यास् तडिद्वन्तो निनादिनः उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः
केचिद् अञ्जनसंकाशाः केचित् कुमुदसंनिभाः धूमवर्णा घनाः केचित् केचित् पीताः पयोधराः
केचिद् धरिद्रावर्णाभा लाक्षारसनिभास् तथा केचिद् वैदूर्यसंकाशा इन्द्रनीलनिभास् तथा
शङ्खकुन्दनिभाश् चान्ये जातीकुन्दनिभास् तथा इन्द्रगोपनिभाः केचिन् मनःशिलानिभास् तथा
पद्मपत्त्रनिभाः केचिद् उत्तिष्ठन्ति घनाघनाः केचित् पुरवराकाराः केचित् पर्वतसंनिभाः
कूटागारनिभाश् चान्ये केचित् स्थलनिभा घनाः महाकाया महारावा पूरयन्ति नभस्तलम्
वर्षन्तस् ते महासारास् तम् अग्निम् अतिभैरवम् शमयन्त्य् अखिलं विप्रास् त्रैलोक्यान्तरविस्तृतम्
नष्टे चाग्नौ शतं ते ऽपि वर्षाणाम् अधिकं घनाः प्लावयन्तो जगत् सर्वं वर्षन्ति मुनिसत्तमाः
धाराभिर् अक्षमात्राभिः प्लावयित्वाखिलां भुवम् भुवो लोकं तथैवोर्ध्वं प्लावयन्ति दिवं द्विजाः
अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे वर्षन्ति ते महामेघा वर्षाणाम् अधिकं शतम्