सर्वेषाम् एव भूतानां त्रिविधः प्रतिसंचरः नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको मतः
ब्राह्मो नैमित्तिकस् तेषां कल्पान्ते प्रतिसंचरः आत्यन्तिको वै मोक्षश् च प्राकृतो द्विपरार्धिकः
परार्धसंख्यां भगवंस् त्वम् आचक्ष्व यथोदिताम् द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसंचरः
स्थानात् स्थानं दशगुणम् एकैकं गण्यते द्विजाः ततो ऽष्टादशमे भागे परार्धम् अभिधीयते
परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः तदाव्यक्ते ऽखिलं व्यक्तं सहेतौ लयम् एति वै
निमेषो मानुषो यो ऽयं मात्रामात्रप्रमाणतः तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास् तथा कला
नाडिका तु प्रमाणेन कला च दश पञ्च च उन्मानेनाम्भसः सा तु पलान्य् अर्धत्रयोदश
हेममाषैः कृतच्छिद्रा चतुर्भिश् चतुरङ्गुलैः मागधेन प्रमाणेन जलप्रस्थस् तु स स्मृतः
नाडिकाभ्याम् अथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः अहोरात्रं मुहूर्तास् तु त्रिंशन् मासो दिनैस् तथा
मासैर् द्वादशभिर् वर्षम् अहोरात्रं तु तद् दिवि त्रिभिर् वर्षशतैर् वर्षं षष्ट्या चैवासुरद्विषाम्
तैस् तु द्वादशसाहस्रैश् चतुर्युगम् उदाहृतम् चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम्
स कल्पस् तत्र मनवश् चतुर्दश द्विजोत्तमाः तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः
तस्य स्वरूपम् अत्युग्रं द्विजेन्द्रा गदतो मम शृणुध्वं प्राकृतं भूयस् ततो वक्ष्याम्य् अहं लयम्
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले अनावृष्टिर् अतीवोग्रा जायते शतवार्षिकी
ततो यान्य् अल्पसाराणि तानि सत्त्वान्य् अनेकशः क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्य् अतिपीडनात्
ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः क्षयाय यतते कर्तुम् आत्मस्थाः सकलाः प्रजाः
ततः स भगवान् विष्णुर् भानोः सप्तसु रश्मिषु स्थितः पिबत्य् अशेषाणि जलानि मुनिसत्तमाः
पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै शोषं नयति भो विप्राः समस्तं पृथिवीतलम्
समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम्
ततस् तस्याप्य् अभावेन तोयाहारोपबृंहिताः सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः
अधश् चोर्ध्वं च ते दीप्तास् ततः सप्त दिवाकराः दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विजाः
दह्यमानं तु तैर् दीप्तैस् त्रैलोक्यं दीप्तभास्करैः साद्रिनगार्णवाभोगं निःस्नेहम् अभिजायते
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यम् अखिलं द्विजाः भवत्य् एषा च वसुधा कूर्मपृष्ठोपमाकृतिः
ततः कालाग्निरुद्रो ऽसौ भूतसर्गहरो हरः शेषाहिश्वाससंतापात् पातालानि दहत्य् अधः
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् भूमिम् अभ्येत्य सकलं दग्ध्वा तु वसुधातलम्
भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ज्वालामालामहावर्तस् तत्रैव परिवर्तते
अम्बरीषम् इवाभाति त्रैलोक्यम् अखिलं तदा ज्वालावर्तपरीवारम् उपक्षीणबलास् ततः
ततस् तापपरीतास् तु लोकद्वयनिवासिनः हृतावकाशा गच्छन्ति महर्लोकं द्विजास् तदा
तस्माद् अपि महातापतप्ता लोकास् ततः परम् गच्छन्ति जनलोकं ते दशावृत्या परैषिणः
ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः