अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास् तथा शीलव्यसनम् आसाद्य प्राप्स्यन्ति ह्रासम् आयुषः
आयुर्हान्या बलग्नानिर् बलग्नान्या विवर्णता वैवर्ण्याद् व्याधिसंपीडा निर्वेदो व्याधिपीडनात्
निर्वेदाद् आत्मसंबोधः संबोधाद् धर्मशीलता एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम्
उद्देशतो धर्मशीलाः केचिन् मध्यस्थतां गताः किंधर्मशीलाः केचित् तु केचिद् अत्र कुतूहलाः
प्रत्यक्षम् अनुमानं च प्रमाणम् इति निश्चिताः अप्रमाणं करिष्यन्ति सर्वम् इत्य् अपरे जनाः
नास्तिक्यपरताश् चापि केचिद् धर्मविलोपकाः भविष्यन्ति नरा मूढा द्विजाः पण्डितमानिनः
तदात्वमात्रश्रद्धेया शास्त्रज्ञानबहिष्कृताः दाम्भिकास् ते भविष्यन्ति नरा ज्ञानविलोपिताः
तथा विलुलिते धर्मे जनाः श्रेष्ठपुरस्कृताः शुभान् समाचरिष्यन्ति दानशीलपरायणाः
सर्वभक्षाः स्वयंगुप्ता निर्घृणा निरपत्रपाः भविष्यन्ति तदा लोके तत् कषायस्य लक्षणम्
कषायोपप्लवे काले ज्ञाननिष्ठाप्रणाशने सिद्धिम् अल्पेन कालेन प्राप्स्यन्ति निरुपस्कृताः
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरे जनाः संश्रयिष्यन्ति भो विप्रास् तत् कषायस्य लक्षणम्
महायुद्धं महावर्षं महावातं महातपः भविष्यति युगे क्षीणे तत् कषायस्य लक्षणम्
विप्ररूपेण यक्षांसि राजानः कर्णवेदिनः पृथिवीम् उपभोक्ष्यन्ति युगान्ते समुपस्थिते
निःस्वाध्यायवषट्काराः कुनेतारो ऽभिमानिनः क्रव्यादा ब्रह्मरूपेण सर्वभक्ष्या वृथाव्रताः
मूर्खाश् चार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः व्यवहारोपवृत्ताश् च च्युता धर्माश् च शाश्वतात्
हर्तारः पररत्नानां परदारप्रधर्षकाः कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः
तेषु प्रभवमाणेषु जनेष्व् अपि च सर्वशः अभाविनो भविष्यन्ति मुनयो बहुरूपिणः
कलौ युगे समुत्पन्नाः प्रधानपुरुषाश् च ये कथायोगेन तान् सर्वान् पूजयिष्यन्ति मानवाः
सस्यचौरा भविष्यन्ति तथा चैलापहारिणः भोक्ष्यभोज्यहराश् चैव करण्डानां च हारिणः
चौराश् चौरस्य हर्तारो हन्ता हन्तुर् भविष्यति चौरैश् चौरक्षये चापि कृते क्षेमं भविष्यति
निःसारे क्षुभिते काले निष्क्रिये संव्यवस्थिते नरा वनं श्रयिष्यन्ति करभारप्रपीडिताः
यज्ञकर्मण्य् उपरते रक्षांसि श्वापदानि च कीटमूषिकसर्पाश् च धर्षयिष्यन्ति मानवान्
क्षेमं सुभिक्षम् आरोग्यं सामग्र्यं चैव बन्धुषु उद्देशेषु नराः श्रेष्ठा भविष्यन्ति युगक्षये
स्वयंपालाः स्वयं चौराः प्लवसंभारसंभृताः मण्डलैः संभविष्यन्ति देशे देशे पृथक् पृथक्
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात्
ततः सर्वे समादाय कुमारान् प्रद्रुता भयात् कौशिकीं संतरिष्यन्ति नराः क्षुद्भयपीडिताः
अङ्गान् वङ्गान् कलिङ्गांश् च काश्मीरान् अथ कोशलान् ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः
कृत्स्नं च हिमवत्पार्श्वं कूलं च लवणाम्भसः विविधं जीर्णपत्त्रं च वल्कलान्य् अजिनानि च
स्वयं कृत्वा निवत्स्यन्ति तस्मिन् भूते युगक्षये अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह
नैव शून्या नवारण्या भविष्यति वसुंधरा अगोप्तारश् च गोप्तारो भविष्यन्ति नराधिपाः