जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत
गान्दिनीं नाम तस्याश् च गाः सदा प्रददौ पिता तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः
अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः उपमद्गुस् तथा मद्गुर् मुदरश् चारिमर्दनः
आरिक्षेपस् तथोपेक्षः शत्रुहा चारिमेजयः धर्मभृच् चापि धर्मा च गृध्रभोजान्धकस् तथा
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना विश्रुताश्वस्य महिषी कन्या चास्य वसुंधरा
रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ
वसुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च
अश्वग्रीवो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ अरिष्टनेमिश् च सुता धर्मो धर्मभृद् एव च
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्
वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन
यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ददाव् अहारयद् बभ्रुर् भोजेन शतधन्वना
सदा हि प्रार्थयाम् आस सत्यभामाम् अनिन्दिताम् अक्रूरो ऽन्तरम् अन्विष्यन् मणिं चैव स्यमन्तकम्
सत्राजितं ततो हत्वा शतधन्वा महाबलः रात्रौ तं मणिम् आदाय ततो ऽक्रूराय दत्तवान्
अक्रूरस् तु तदा विप्रा रत्नम् आदाय चोत्तमम् समयं कारयां चक्रे नावेद्यो ऽहं त्वयेत्य् उत
वयम् अभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् ममाद्य द्वारका सर्वा वशे तिष्ठत्य् असंशयम्
हते पितरि दुःखार्ता सत्यभामा मनस्विनी प्रययौ रथम् आरुह्य नगरं वारणावतम्
सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः भर्तुर् निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्य् अवर्तयत्
पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्
ततस् त्वरितम् आगम्य द्वारकां मधुसूदनः पूर्वजं हलिनं श्रीमान् इदं वचनम् अब्रवीत्
हतः प्रसेनः सिंहेन सत्राजिच् छतधन्वना स्यमन्तकस् तु मद्नामी तस्य प्रभुर् अहं विभो
तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् स्यमन्तको महाबाहो अस्माकं स भविष्यति
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः शतधन्वा ततो ऽक्रूरं सर्वतोदिशम् ऐक्षत
संरब्धौ ताव् उभौ तत्र दृष्ट्वा भोजजनार्दनौ शक्तो ऽपि शापाद् धार्दिक्यम् अक्रूरो नान्वपद्यत
अपयाने ततो बुद्धिं भोजश् चक्रे भयार्दितः योजनानां शतं साग्रं हृदया प्रत्यपद्यत
विख्याता हृदया नाम शतयोजनगामिनी भोजस्य वडवा विप्रा यया कृष्णम् अयोधयत्
क्षीणां जवेन हृदयाम् अध्वनः शतयोजने दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानम् अर्दयत्
ततस् तस्या हतायास् तु श्रमात् खेदाच् च भो द्विजाः खम् उत्पेतुर् अथ प्राणाः कृष्णो रामम् अथाब्रवीत्
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्
पद्भ्याम् एव ततो गत्वा शतधन्वानम् अच्युतः मिथिलाम् अभितो विप्रा जघान परमास्त्रवित्
स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली