श्वापदप्रचुरत्वं च गवां चैव परिक्षयः साधूनां परिवृत्तिश् च विद्याद् अन्तगते युगे
अन्त्या मध्ये निवत्स्यन्ति मध्याश् चान्तनिवासिनः निर्ह्रीकाश् च प्रजाः सर्वा नष्टास् तत्र युगक्षये
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ऋतवो विपरीताश् च भविष्यन्ति युगक्षये
तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति
सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये
पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः न च धर्मं चरिष्यन्ति मानवा निर्गते युगे
ऊषरा बहुला भूमिः पन्थानस् तस्करावृताः सर्वे ... वाणिकाश् चैव भविष्यन्ति युगक्षये
पितृदायाददत्तानि विभजन्ति तथा सुताः हरणे यत्नवन्तो ऽपि लोभादिभिर् विरोधिनः
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते भविष्यन्ति युगस्यान्ते नार्यः केशैर् अलंकृताः
निर्वीर्यस्य रतिस् तत्र गृहस्थस्य भविष्यति युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः
कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम्
बहुयाचनको लोको न दास्यति परस्परम् राजचौराग्निदण्डादिक्षीणः क्षयम् उपैष्यति
अफलानि च सस्यानि तरुणा वृद्धशीलिनः अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये
वर्षासु परुषा वाता नीचाः शर्करवर्षिणः संदिग्धः परलोकश् च भविष्यति युगक्षये
वैश्या इव च राजन्या धनधान्योपजीविनः युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः
अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास् तथा ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति
भविष्यत्य् अफलो हर्षः क्रोधश् च सफलो नृणाम् अजाश् चापि निरोत्स्यन्ति पयसो ऽर्थे युगक्षये
अशास्त्रविहितो यज्ञ एवम् एव भविष्यति अप्रमाणं करिष्यन्ति नराः पण्डितमानिनः
शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति न संशयः सर्वः सर्वं विजानाति वृद्धान् अनुपसेव्य वै
न कश्चिद् अकविर् नाम युगान्ते समुपस्थिते नक्षत्राणि वियोगानि न कर्मस्था द्विजातयः
चौरप्रायाश् च राजानो युगान्ते समुपस्थिते कुण्डीवृषा नैकृतिकाः सुरापा ब्रह्मवादिनः
अश्वमेधेन यक्ष्यन्ते युगान्ते द्विजसत्तमाः याजयिष्यन्त्य् अयाज्यांस् तु तथाभक्ष्यस्य भक्षिणः
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते भोःशब्दम् अभिधास्यन्ति न च कश्चित् पठिष्यति
एकशङ्खास् तथा नार्यो गवेधुकपिनद्धकाः नक्षत्राणि विवर्णानि विपरिता दिशो दश
संध्यारागो विदग्धाङ्गो भविष्यति युगक्षये प्रेषयन्ति पितॄन् पुत्रा वधूः श्वश्रूः स्वकर्मसु
युगेष्व् एवं निवत्स्यन्ति प्रमदाश् च नरास् तथा अकृत्वाग्राणि भोक्ष्यन्ति द्विजाश् चैवाहुताग्नयः
भिक्षां बलिम् अदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् वञ्चयित्वा पतीन् सुप्तान् गमिष्यन्ति स्त्रियो ऽन्यतः
न व्याधितान् नाप्य् अरूपान् नोद्यतान् नाप्य् असूयकान् कृते न प्रतिकर्ता च युगे क्षीणे भविष्यति
एवं विलम्बिते धर्मे मानुषाः करपीडिताः कुत्र देशे निवत्स्यन्ति किमाहारविहारिणः
किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम्