व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः ततस् तु धर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः
वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् पतनाय तथा भाव्यं तैस् तु संयतिभिः सह
असम्यक्करणे दोषास् तेषां सर्वेषु वस्तुषु भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः
पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः लोकान् क्लेशेन महता यजन्ति विनयान्विताः
द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् निजं जयति वै लोकं शूद्रो धन्यतरस् ततः
भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम्
स्वधर्मस्याविरोधेन नरैर् लभ्यं धनं सदा प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि
तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम्
एभिर् अन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात्
योषिच् छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा एतद् विषयम् आप्नोति तत्सालोक्यं यतो द्विजाः
नातिक्लेशेन महता तान् एव पुरुषो यथा तृतीयं व्याहृतं तेन मया साध्व् इति योषितः
एतद् वः कथितं विप्रा यन्निमित्तम् इहागताः तत् पृच्छध्वं यथाकामम् अहं वक्ष्यामि वः स्फुटम्
अल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ नरैर् आत्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः
शूद्रैश् च द्विजशुश्रूषातत्परैर् मुनिसत्तमाः तथा स्त्रीभिर् अनायासात् पतिशुश्रूषयैव हि
ततस् त्रितयम् अप्य् एतन् मम धन्यतमं मतम् धर्मसंराधने क्लेशो द्विजातीनां कृतादिषु
तथा स्वल्पेन तपसा सिद्धिं यास्यन्ति मानवाः धन्या धर्मं चरिष्यन्ति युगान्ते मुनिसत्तमाः
भवद्भिर् यद् अभिप्रेतं तद् एतत् कथितं मया अपृष्टेनापि धर्मज्ञाः किम् अन्यत् क्रियतां द्विजाः
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे
प्राप्ता वयं हि तत् कालम् अनया धर्मतृष्णया आदद्याम परं धर्मं सुखम् अल्पेन कर्मणा
संत्रासोद्वेगजननं युगान्तं समुपस्थितम् प्रनष्टधर्मं धर्मज्ञ निमित्तैर् वक्तुम् अर्हसि
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः शूद्राश् च ब्राह्मणाचारा भविष्यन्ति युगक्षये
श्रोत्रियाः काण्डपृष्ठाश् च निष्कर्माणि हवींषि च एकपङ्क्त्याम् अशिष्यन्ति युगान्ते मुनिसत्तमाः
अशिष्टवन्तो ऽर्थपरा नरा मद्यामिषप्रियाः मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः
राजवृत्तिस्थिताश् चौरा राजानश् चौरशीलिनः भृत्या ह्य् अनिर्दिष्टभुजो भविष्यन्ति युगक्षये
धनानि श्लाघनीयानि सतां वृत्तम् अपूजितम् अकुत्सना च पतिते भविष्यति युगक्षये
प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः ऊनषोडशवर्षाश् च प्रसोष्यन्ति तथा स्त्रियः
अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः प्रमदाः केशशूलाश् च भविष्यन्ति युगक्षये
सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः शूद्राभा वादिनश् चैव ब्राह्मणाश् चान्त्यवासिनः
शुक्लदन्ता जिताक्षाश् च मुण्डाः काषायवाससः शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः