प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम् तदानुमेयं प्राधान्यं कलेर् विप्रा विचक्षणैः
यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम्
न प्रीतिर् वेदवादेषु पाखण्डेषु यदा रतिः कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तमाः
कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम् नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः
किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजल्पना इत्य् एवं प्रलपिष्यन्ति पाखण्डोपहता नराः
अल्पवृष्टिश् च पर्जन्यः स्वल्पं सस्यफलं तथा फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे
जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे
अणुप्रायाणि धान्यानि आजप्रायं तथा पयः भविष्यति कलौ प्राप्त औशीरं चानुलेपनम्
श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ शालाद्याहारिभार्याश् च सुहृदो मुनिसत्तमाः
कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् इति चोदाहरिष्यन्ति श्वशुरानुगता नराः
वाङ्मनःकायजैर् दोषैर् अभिभूताः पुनः पुनः नराः पापान्य् अनुदिनं करिष्यन्त्य् अल्पमेधसः
निःसत्यानाम् अशौचानां निर्ह्रीकाणां तथा द्विजाः यद् यद् दुःखाय तत् सर्वं कलिकाले भविष्यति
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते तदा प्रविरलो विप्रः कश्चिल् लोके भविष्यति
तत्राल्पेनैव कालेन पुण्यस्कन्धम् अनुत्तमम् करोति यः कृतयुगे क्रियते तपसा हि यः
कस्मिन् काले ऽल्पको धर्मो ददाति सुमहाफलम् वक्तुम् अर्हस्य् अशेषेण श्रोतुं वाञ्छा प्रवर्तते
धन्ये कलौ भवेद् विप्रास् त्व् अल्पक्लेशैर् महत् फलम् तथा भवेतां स्त्रीशूद्रौ धन्यौ चान्यन् निबोधत
यत् कृते दशभिर् वर्षैस् त्रेतायां हायनेन तत् द्वापरे तच् च मासेन अहोरात्रेण तत् कलौ
तपसो ब्रह्मचर्यस्य जपादेश् च फलं द्विजाः प्राप्नोति पुरुषस् तेन कलौ साध्व् इति भाषितुम्
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन् यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम्
धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ स्वल्पायासेन धर्मज्ञास् तेन तुष्टो ऽस्म्य् अहं कलौ
व्रतचर्यापरैर् ग्राह्या वेदाः पूर्वं द्विजातिभिः ततस् तु धर्मसंप्राप्तैर् यष्टव्यं विधिवद् धनैः
वृथा कथा वृथा भोज्यं वृथा स्वं च द्विजन्मनाम् पतनाय तथा भाव्यं तैस् तु संयतिभिः सह
असम्यक्करणे दोषास् तेषां सर्वेषु वस्तुषु भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः
पारतन्त्र्यात् समस्तेषु तेषां कार्येषु वै ततः लोकान् क्लेशेन महता यजन्ति विनयान्विताः
द्विजशुश्रूषणेनैव पाकयज्ञाधिकारवान् निजं जयति वै लोकं शूद्रो धन्यतरस् ततः
भक्ष्याभक्ष्येषु नाशास्ति येषां पापेषु वा यतः नियमो मुनिशार्दूलास् तेनासौ साध्व् इतीरितम्
स्वधर्मस्याविरोधेन नरैर् लभ्यं धनं सदा प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि
तस्यार्जने महान् क्लेशः पालनेन द्विजोत्तमाः तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम्
एभिर् अन्यैस् तथा क्लेशैः पुरुषा द्विजसत्तमाः निजाञ् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात्
योषिच् छुश्रूषणाद् भर्तुः कर्मणा मनसा गिरा एतद् विषयम् आप्नोति तत्सालोक्यं यतो द्विजाः