दुर्भिक्षम् एव सततं सदा क्लेशम् अनीश्वराः प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ
अस्नातभोजिनो नाग्निदेवतातिथिपूजनम् करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम्
लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः
उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः कुर्वत्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनावृताः
स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः
दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
वेदादानं करिष्यन्ति वडवाश् च तथाव्रताः गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि
भवेयुर् वनवासा वै ग्राम्याहारपरिग्रहाः भिक्षवश् चापि पुत्रा हि स्नेहसंबन्धयन्त्रकाः
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः हारिणो जनवित्तानां संप्राप्ते च कलौ युगे
यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे
वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् शूद्रवृत्त्या भविष्यन्ति कारुकर्मोपजीविनः
भैक्ष्यव्रतास् तथा शूद्राः प्रव्रज्यालिङ्गिनो ऽधमाः पाखण्डसंश्रयां वृत्तिम् आश्रयिष्यन्त्य् असंस्कृताः
दुर्भिक्षकरपीडाभिर् अतीवोपद्रुता जनाः गोधूमान्नयवान्नाद्यान् देशान् यास्यन्ति दुःखिताः
वेदमार्गे प्रलीने च पाखण्डाढ्ये ततो जने अधर्मवृद्ध्या लोकानाम् अल्पम् आयुर् भविष्यति
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः नरेषु नृपदोषेण बालमृत्युर् भविष्यति
भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ
पलितोद्गमश् च भविता तदा द्वादशवार्षिकः न जीविष्यति वै कश्चित् कलौ वर्षाणि विंशतिम्
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ यतस् ततो विनश्यन्ति कालेनाल्पेन मानवाः
यदा यदा हि पाखण्डवृत्तिर् अत्रोपलक्ष्यते तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः
यदा यदा सतां हानिर् वेदमार्गानुसारिणाम् तदा तदा कलेर् वृद्धिर् अनुमेया विचक्षणैः
प्रारम्भाश् चावसीदन्ति यदा धर्मकृतां नृणाम् तदानुमेयं प्राधान्यं कलेर् विप्रा विचक्षणैः
यदा यदा न यज्ञानाम् ईश्वरः पुरुषोत्तमः इज्यते पुरुषैर् यज्ञैस् तदा ज्ञेयं कलेर् बलम्
न प्रीतिर् वेदवादेषु पाखण्डेषु यदा रतिः कलेर् वृद्धिस् तदा प्राज्ञैर् अनुमेया द्विजोत्तमाः
कलौ जगत्पतिं विष्णुं सर्वस्रष्टारम् ईश्वरम् नार्चयिष्यन्ति भो विप्राः पाखण्डोपहता नराः
किं देवैः किं द्विजैर् वेदैः किं शौचेनाम्बुजल्पना इत्य् एवं प्रलपिष्यन्ति पाखण्डोपहता नराः
अल्पवृष्टिश् च पर्जन्यः स्वल्पं सस्यफलं तथा फलं तथाल्पसारं च विप्राः प्राप्ते कलौ युगे
जानुप्रायाणि वस्त्राणि शमीप्राया महीरुहाः शूद्रप्रायास् तथा वर्णा भविष्यन्ति कलौ युगे
अणुप्रायाणि धान्यानि आजप्रायं तथा पयः भविष्यति कलौ प्राप्त औशीरं चानुलेपनम्
श्वश्रूश्वशुरभूयिष्ठा गुरवश् च नृणां कलौ शालाद्याहारिभार्याश् च सुहृदो मुनिसत्तमाः
कस्य माता पिता कस्य यदा कर्मात्मकः पुमान् इति चोदाहरिष्यन्ति श्वशुरानुगता नराः