चतुर्युगाण्य् अशेषाणि सदृशानि स्वरूपतः आद्यं कृतयुगं प्रोक्तं मुनयो ऽन्त्यं तथा कलिम्
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः क्रियते चोपसंहारस् तथान्ते ऽपि कलौ युगे
कलेः स्वरूपं भगवन् विस्तराद् वक्तुम् अर्हसि धर्मश् चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति
कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः निबोधध्वं समासेन वर्तते यन् महत्तरम्
वर्णाश्रमाचारवती प्रवृत्तिर् न कलौ नृणाम् न साम-ऋग्यजुर्वेदविनिष्पादनहैतुकी
विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः न पुत्रा धार्मिकाश् चैव न च वह्निक्रियाक्रमः
यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः
येन तेनैव योगेन द्विजातिर् दीक्षितः कलौ यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ
सर्वम् एव कलौ शास्त्रं यस्य यद् वचनं द्विजाः देवताश् च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः
उपवासस् तथायासो वित्तोत्सर्गस् तथा कलौ धर्मो यथाभिरुचितैर् अनुष्ठानैर् अनुष्ठितः
वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ स्त्रीणां रूपमदश् चैव केशैर् एव भविष्यति
सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते कलौ स्त्रियो भविष्यन्ति तदा केशैर् अलंकृताः
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः भर्ता भविष्यति कलौ वित्तवान् एव योषिताम्
यो यो ददाति बहुलं स स स्वामी तदा नृणाम् स्वामित्वहेतुसंबन्धो भविताभिजनस् तदा
गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः अर्थाश् चाथोपभोगान्ता भविष्यन्ति तदा कलौ
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः
अभ्यर्थितो ऽपि सुहृदा स्वार्थहानिं तु मानवः पणस्यार्धार्धमात्रे ऽपि करिष्यति तदा द्विजाः
सदा सपौरुषं चेतो भावि विप्र तदा कलौ क्षीरप्रदानसंबन्धि भाति गोषु च गौरवम्
अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः
मूलपर्णफलाहारास् तापसा इव मानवाः आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः
दुर्भिक्षम् एव सततं सदा क्लेशम् अनीश्वराः प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ
अस्नातभोजिनो नाग्निदेवतातिथिपूजनम् करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम्
लोलुपा ह्रस्वदेहाश् च बह्वन्नादनतत्पराः बहुप्रजाल्पभाग्याश् च भविष्यन्ति कलौ स्त्रियः
उभाभ्याम् अथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः कुर्वत्यो गुरुभर्तॄणाम् आज्ञां भेत्स्यन्त्य् अनावृताः
स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः
दुःशीला दुष्टशीलेषु कुर्वत्यः सततं स्पृहाम् असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
वेदादानं करिष्यन्ति वडवाश् च तथाव्रताः गृहस्थाश् च न होष्यन्ति न दास्यन्त्य् उचितान्य् अपि
भवेयुर् वनवासा वै ग्राम्याहारपरिग्रहाः भिक्षवश् चापि पुत्रा हि स्नेहसंबन्धयन्त्रकाः
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः हारिणो जनवित्तानां संप्राप्ते च कलौ युगे
यो यो ऽश्वरथनागाढ्यः स स राजा भविष्यति यश् च यश् चाबलः सर्वः स स भृत्यः कलौ युगे