कृत्वा तु पापानि नरो महान्ति तस्मिन् प्रविष्टः शुचिर् अप्रमादी यदा तु मां चिन्तयते स शुद्धः प्रयाति मोक्षं भगवत्प्रसादात्
भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो योन्यन्तरे दुःखम् उपाश्नुते ऽसौ विमुक्तपापो बहुवर्षपूगैर् उत्पत्तिम् आयास्यति विप्रगेहे
शुचिर् यतात्मास्य ततो ऽन्तकाले रुद्रो हितं तारकम् अस्य कीर्तयेत् इत्य् एवम् उक्त्वा द्विजवर्य नारदं गतो ऽस्मि दुग्धार्णवम् आत्मगेहम्
स चापि विप्रस् त्रिदिवं चचार गन्धर्वराजेन समर्च्यमानः एतत् तवोक्तं ननु बोधनाय माया मदीया नहि शक्यते सा
ज्ञातुं भवान् इच्छति चेत् ततो ऽद्य एवं विशस्वाप्सु च वेत्सि येन एवं द्विजातिर् हरिणा प्रबोधितो भाव्यर्थयोगान् निममज्ज तोये
कोकामुखे तात ततो हि कन्या चाण्डालवेश्मन्य् अभवद् द्विजः सः रूपान्विता शीलगुणोपपन्ना अवाप सा यौवनम् आससाद
चाण्डालपुत्रेण सुबाहुनापि विवाहिता रूपविवर्जितेन पतिर् न तस्या हि मतो बभूव सा तस्य चैवाभिमता बभूव
पुत्रद्वयं नेत्रहीनं बभूव कन्या च पश्चाद् बधिरा तथान्या पतिर् दरिद्रस् त्व् अथ सापि मुग्धा नदीगता रोदिति तत्र नित्यम्
गता कदाचित् कलशं गृहीत्वा सान्तर् जलं स्नातुम् अथ प्रविष्टा यावद् द्विजो ऽसौ पुनर् एव तावज् जातः क्रियायोगरतः सुशीलः
तस्याः स भर्ताथ चिरंगतेति द्रष्टुं जगामाथ नदीं सुपुण्याम् ददर्श कुम्भं न च तां तटस्थां ततो ऽतिदुःखात् प्ररुरोद नादयन्
ततो ऽन्धयुग्मं बधिरा च कन्या दुःखान्वितासौ समुपाजगाम ते वै रुदन्तं पितरं च दृष्ट्वा दुःखान्विता वै रुरुदुर् भृशार्ताः
ततः स पप्रच्छ नदीतटस्थान् द्विजान् भवद्भिर् यदि योषिद् एका दृष्टा तु तोयार्थम् उपाद्रवन्ती आख्यात ते प्रोचुर् इमां प्रविष्टा
नदीं न भूयस् तु समुत्ततार एतावद् एवेह समीहितं नः स तद्वचो घोरतरं निशम्य रुरोद शोकाश्रुपरिप्लुताक्षः
तं वै रुदन्तं ससुतं सकन्यं दृष्ट्वाहम् आर्तः सुतरां बभूव आर्तिश् च मे ऽभूद् अथ संस्मृतिश् च चाण्डालयोषाहम् इति क्षितीश
ततो ऽब्रवं तं नृपते मतङ्गं किमर्थम् आर्तेन हि रुद्यते त्वया तस्या न लाभो भवितातिमौर्ख्याद् आक्रन्दितेनेह वृथा हि किं ते
स माम् उवाचात्मजयुग्मम् अन्धं कन्या चैका बधिरेयं तथैव कथं द्विजाते अधुनार्तम् एतम् आश्वासयिष्ये ऽप्य् अथ पोषयिष्ये
इत्य् एवम् उक्त्वा स सुतैश् च सार्धं फूत्कृत्य फूत्कृत्य च रोदिति स्म यथा यथा रोदिति स श्वपाकस् तथा तथा मे ह्य् अभवत् कृतापि
ततो ऽहम् आर्तं तु निवार्य तं वै स्ववंशवृत्तान्तम् अथाचचक्षे ततः स दुःखात् सह पुत्रकैः संविवेश कोकामुखम् आर्तरूपः
प्रविष्टमात्रे सलिले मतङ्गस् तीर्थप्रभावाच् च विमुक्तपापः विमानम् आरुह्य शशिप्रकाशं ययौ दिवं तात ममोपपश्यतः
तस्मिन् प्रविष्टे सलिले मृते च ममार्तिर् आसीद् अतिमोहकर्त्री ततो ऽतिपुण्ये नृपवर्य कोका जले प्रविष्टस् त्रिदिवं गतश् च
भूयो ऽभवं वैश्यकुले व्यथार्तो जातिस्मरस् तीर्थवरप्रसादात् ततो ऽतिनिर्विण्णमना गतो ऽहं कोकामुखं संयतवाक्यचित्तः
व्रतं समास्थाय कलेवरं स्वं संशोषयित्वा दिवम् आरुरोह तस्माच् च्युतस् त्वद्भवने च जातो जातिस्मरस् तात हरिप्रसादात्
सो ऽहं समाराध्य मुरारिदेवं कोकामुखे त्यक्तशुभाशुभेच्छः इत्य् एवम् उक्त्वा पितरं प्रणम्य गत्वा च कोकामुखम् अग्रतीर्थम्
इत्थं स कामदमनः सहपुत्रपौत्रः कोकामुखे तीर्थवरे सुपुण्ये त्यक्त्वा तनुं दोषमयीं ततस् तु गतो दिवं सूर्यसमैर् विमानैः
एवं मयोक्ता परमेश्वरस्य माया सुराणाम् अपि दुर्विचिन्त्या स्वप्नेन्द्रजालप्रतिमा मुरारेर् यया जगन् मोहम् उपैति विप्राः
अस्माभिस् तु श्रुतं व्यास यत् त्वया समुदाहृतम् प्रादुर्भावाश्रितं पुण्यं माया विष्णोश् च दुर्विदा
श्रोतुम् इच्छामहे त्वत्तो यथावद् उपसंहृतिम् महाप्रलयसंज्ञां च कल्पान्ते च महामुने
श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः कल्पान्ते प्राकृते चैव प्रलये जायते यथा
अहोरात्रं पितॄणां तु मासो ऽब्दं त्रिदिवौकसाम् चतुर्युगसहस्रे तु ब्रह्मणो ऽहर् द्विजोत्तमाः
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम् दैवैर् वर्षसहस्रैस् तु तद् द्वादशाभिर् उच्यते