ततो मुरारिं पुनर् उक्तवान् अहं भूयो ऽर्थधर्मार्थजिगीषितैव यत् माया तवेमाम् इह वेत्तुम् इच्छे ममाद्य तां दर्शय पुष्कराक्ष
पूर्वं सुरर्षिर् द्विज नारदाख्यो ब्रह्मात्मजो ऽभून् मम भक्तियुक्तः तेनापि पूर्वं भवता यथैव संतोषितो भक्तिमता हि तद्वत्
वरं च दत्तं गतवान् अहं च स चापि वव्रे वरम् एतद् एव निवारितो माम् अतिमूढभावाद् भवान् यथैवं वृतवान् वरं च
ततो मयोक्तो ऽम्भसि नारद त्वं मायां हि मे वेत्स्यसि संनिमग्नः ततो निमग्नो ऽम्भसि नारदो ऽसौ कन्या बभौ काशिपतेः सुशीला
तां यौवनाढ्याम् अथ चारुधर्मिणे विदर्भराज्ञस् तनयाय वै ददौ स्वधर्मणे सो ऽपि तया समेतः सिषेव कामान् अतुलान् महर्षिः
स्वर्गे गते ऽसौ पितरि प्रतापवान् राज्यं क्रमायातम् अवाप्य हृष्टः विदर्भराष्ट्रं परिपालयानः पुत्रैः सपौत्रैर् बहुभिर् वृतो ऽभूत्
अथाभवद् भूमिपतेः सुधर्मणः काशीश्वरेणाथ समं सुयुद्धम् तत्र क्षयं प्राप्य सपुत्रपौत्रं विदर्भराट् काशिपतिश् च युद्धे
ततः सुशीला पितरं सपुत्रं ज्ञात्वा पतिं चापि सपुत्रपौत्रम् पुराद् विनिःसृत्य रणावनिं गता दृष्ट्वा सुशीला कदनं महान्तम्
भर्तुर् बले तत्र पितुर् बले च दुःखान्विता सा सुचिरं विलप्य जगाम सा मातरम् आर्तरूपा भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान्
भर्तारम् एषा पितरं च गृह्य महाश्मशाने च महाचितिं सा कृत्वा हुताशं प्रददौ स्वयं च यदा समिद्धो हुतभुग् बभूव
तदा सुशीला प्रविवेश वेगाद् धा पुत्र हा पुत्र इति ब्रुवाणा तदा पुनः सा मुनिर् नारदो ऽभूत् स चापि वह्निः स्फटिकामलाभः
कस् ते तु पुत्रो वद मे महर्षे मृतं च कं शोचसि नष्टबुद्धिः व्रीडान्वितो ऽभूद् अथ नारदो ऽसौ ततो ऽहम् एनं पुनर् एव चाह
इतीदृशा नारद कष्टरूपा माया मदीया कमलासनाद्यैः शक्या न वेत्तुं समहेन्द्ररुद्रैः कथं भवान् वेत्स्यति दुर्विभाव्याम्
स वाक्यम् आकर्ण्य महामहर्षिर् उवाच भक्तिं मम देहि विष्णो प्राप्ते ऽथ काले स्मरणं तथैव सदा च संदर्शनम् ईश ते ऽस्तु
यत्राहम् आर्तश् चितिम् अद्य रूढस् तत् तीर्थम् अस्त्व् अच्युतपापहन्त्रा अधिष्ठितं केशव नित्यम् एव त्वया सहासं कमलोद्भवेन
ततो मयोक्तो द्विज नारदो ऽसौ तीर्थं सितोदे हि चितिस् तवास्तु स्थास्याम्य् अहं चात्र सदैव विष्णुर् महेश्वरः स्थास्यति चोत्तरेण
यदा विरञ्चेर् वदनं त्रिनेत्रः स च्छेत्स्यतेयं च ममोग्रवाचम् तदा कपालस्य तु मोचनाय समेष्यते तीर्थम् इदं त्वदीयम्
स्नातस्य तीर्थे त्रिपुरान्तकस्य पतिष्यते भूमितले कपालम् ततस् तु तीर्थेति कपालमोचनं ख्यातं पृथिव्यां च भविष्यते तत्
तदा प्रभृत्य् अम्बुदवाहनो ऽसौ न मोक्ष्यते तीर्थवरं सुपुण्यम् न चैव तस्मिन् द्विज संप्रचक्षते तत् क्षेत्रम् उग्रं त्व् अथ ब्रह्मवध्या
यदा न मोक्षत्य् अमरारिहन्ता तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् तदा विमुक्तेति सुरै रहस्यं तीर्थं स्तुतं पुण्यदम् अव्ययाख्यम्
कृत्वा तु पापानि नरो महान्ति तस्मिन् प्रविष्टः शुचिर् अप्रमादी यदा तु मां चिन्तयते स शुद्धः प्रयाति मोक्षं भगवत्प्रसादात्
भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो योन्यन्तरे दुःखम् उपाश्नुते ऽसौ विमुक्तपापो बहुवर्षपूगैर् उत्पत्तिम् आयास्यति विप्रगेहे
शुचिर् यतात्मास्य ततो ऽन्तकाले रुद्रो हितं तारकम् अस्य कीर्तयेत् इत्य् एवम् उक्त्वा द्विजवर्य नारदं गतो ऽस्मि दुग्धार्णवम् आत्मगेहम्
स चापि विप्रस् त्रिदिवं चचार गन्धर्वराजेन समर्च्यमानः एतत् तवोक्तं ननु बोधनाय माया मदीया नहि शक्यते सा
ज्ञातुं भवान् इच्छति चेत् ततो ऽद्य एवं विशस्वाप्सु च वेत्सि येन एवं द्विजातिर् हरिणा प्रबोधितो भाव्यर्थयोगान् निममज्ज तोये
कोकामुखे तात ततो हि कन्या चाण्डालवेश्मन्य् अभवद् द्विजः सः रूपान्विता शीलगुणोपपन्ना अवाप सा यौवनम् आससाद
चाण्डालपुत्रेण सुबाहुनापि विवाहिता रूपविवर्जितेन पतिर् न तस्या हि मतो बभूव सा तस्य चैवाभिमता बभूव
पुत्रद्वयं नेत्रहीनं बभूव कन्या च पश्चाद् बधिरा तथान्या पतिर् दरिद्रस् त्व् अथ सापि मुग्धा नदीगता रोदिति तत्र नित्यम्
गता कदाचित् कलशं गृहीत्वा सान्तर् जलं स्नातुम् अथ प्रविष्टा यावद् द्विजो ऽसौ पुनर् एव तावज् जातः क्रियायोगरतः सुशीलः
तस्याः स भर्ताथ चिरंगतेति द्रष्टुं जगामाथ नदीं सुपुण्याम् ददर्श कुम्भं न च तां तटस्थां ततो ऽतिदुःखात् प्ररुरोद नादयन्