प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः नगरे कामदमनस् तस्याथ तनयः शुचिः
धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः
पितास्य त्व् अकरोद् यत्नं विवाहाय न चैच्छत तं पिता प्राह किम् इति नेच्छसे दारसंग्रहम्
सर्वम् एतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल सुखमूला हि दाराश् च तस्मात् तं त्वं समाचर
स पितुर् वचनं श्रुत्वा तूष्णीम् आस्ते च गौरवात् मुहुर् मुहुस् तं च पिता चोदयाम् आस भो द्विजाः
अथासौ पितरं प्राह तात नामानुरूपता मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी
तं पिता प्राह संगम्य नैष धर्मो ऽस्ति पुत्रक न विधारयितव्या स्यात् पुरुषेण विपश्चिता
कुरु मद्वचनं पुत्र प्रभुर् अस्मि पिता तव मा निमज्ज कुलं मह्यं नरके संततिक्षयात्
स हि तं पितुर् आदेशं श्रुत्वा प्राह सुतो वशी प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम्
शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव
मया जन्मसहस्राणि जरामृत्युशतानि च प्राप्तानि दारसंयोगवियोगानि च सर्वशः
तृणगुल्मलतावल्लीसरीसृपमृगद्विजाः पशुस्त्रीपुरुषाद्यानि प्राप्तानि शतशो मया
गणकिंनरगन्धर्वविद्याधरमहोरगाः यक्षगुह्यकरक्षांसि दानवाप्सरसः सुराः
नदीश्वरसहस्रं च प्राप्तं तात पुनः पुनः सृष्टस् तु बहुशः सृष्टौ संहारे चापि संहृतः
दारसंयोगयुक्तस्य तातेदृङ् मे विडम्बना इतस् तृतीये यद् वृत्तं मम जन्मनि तच् छृणु कथयामि समासेन तीर्थमाहात्म्यसंभवम्
अतीत्य जन्मानि बहूनि तात नृदेवगन्धर्वमहोरगाणाम् विद्याधराणां खगकिंनराणां जातो हि वंशे सुतपा महर्षिः
ततो महाभूद् अचला हि भक्तिर् जनार्दने लोकपतौ मधुघ्ने व्रतोपवासैर् विविधैश् च भक्त्या संतोषितश् चक्रगदास्त्रधारी
तुष्टो ऽभ्यगात् पक्षिपतिं महात्मा विष्णुः समारुह्य वरप्रदो मे प्राहोच्चशब्दं व्रियतां द्विजाते वरो हि यं वाञ्छसि तं प्रदास्ये
ततो ऽहम् ऊचे हरिम् ईशितारं तुष्टो ऽसि चेत् केशव तद् वृणोमि या सा त्वदीया परमा हि माया तां वेत्तुम् इच्छामि जनार्दनो ऽहम्
अथाब्रवीन् मे मधुकैटभारिः किं ते तया ब्रह्मन् मायया वै धर्मार्थकामानि ददानि तुभ्यं पुत्राणि मुख्यानि निरामयत्वम्
ततो मुरारिं पुनर् उक्तवान् अहं भूयो ऽर्थधर्मार्थजिगीषितैव यत् माया तवेमाम् इह वेत्तुम् इच्छे ममाद्य तां दर्शय पुष्कराक्ष
पूर्वं सुरर्षिर् द्विज नारदाख्यो ब्रह्मात्मजो ऽभून् मम भक्तियुक्तः तेनापि पूर्वं भवता यथैव संतोषितो भक्तिमता हि तद्वत्
वरं च दत्तं गतवान् अहं च स चापि वव्रे वरम् एतद् एव निवारितो माम् अतिमूढभावाद् भवान् यथैवं वृतवान् वरं च
ततो मयोक्तो ऽम्भसि नारद त्वं मायां हि मे वेत्स्यसि संनिमग्नः ततो निमग्नो ऽम्भसि नारदो ऽसौ कन्या बभौ काशिपतेः सुशीला
तां यौवनाढ्याम् अथ चारुधर्मिणे विदर्भराज्ञस् तनयाय वै ददौ स्वधर्मणे सो ऽपि तया समेतः सिषेव कामान् अतुलान् महर्षिः
स्वर्गे गते ऽसौ पितरि प्रतापवान् राज्यं क्रमायातम् अवाप्य हृष्टः विदर्भराष्ट्रं परिपालयानः पुत्रैः सपौत्रैर् बहुभिर् वृतो ऽभूत्
अथाभवद् भूमिपतेः सुधर्मणः काशीश्वरेणाथ समं सुयुद्धम् तत्र क्षयं प्राप्य सपुत्रपौत्रं विदर्भराट् काशिपतिश् च युद्धे
ततः सुशीला पितरं सपुत्रं ज्ञात्वा पतिं चापि सपुत्रपौत्रम् पुराद् विनिःसृत्य रणावनिं गता दृष्ट्वा सुशीला कदनं महान्तम्
भर्तुर् बले तत्र पितुर् बले च दुःखान्विता सा सुचिरं विलप्य जगाम सा मातरम् आर्तरूपा भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान्
भर्तारम् एषा पितरं च गृह्य महाश्मशाने च महाचितिं सा कृत्वा हुताशं प्रददौ स्वयं च यदा समिद्धो हुतभुग् बभूव