यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्य् अथ प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम् अन्वेषयन् परिश्रान्तः स ददर्श महामनाः
साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
ऋक्षेण निहतो दृष्टः पदैर् ऋक्षस् तु सूचितः पदैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः
स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् धात्र्या कुमारम् आदाय सुतं जाम्बवतो द्विजाः
क्रीडयन्त्या च मणिना मा रोदीर् इत्य् अथेरिताम्
सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः
व्यक्तितस् तस्य शब्दस्य तूर्णम् एव बिलं ययौ प्रविश्य तत्र भगवांस् तद् ऋक्षबिलम् अञ्जसा
स्थापयित्वा बिलद्वारे यदूंल् लाङ्गलिना सह शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः
युयुधे वासुदेवस् तु बिले जाम्बवता सह बाहुभ्याम् एव गोविन्दो दिवसान् एकविंशतिम्
प्रविष्टे ऽथ बिले कृष्णे बलदेवपुरःसराः पुरीं द्वारवतीम् एत्य हतं कृष्णं न्यवेदयन्
वासुदेवो ऽपि निर्जित्य जाम्बवन्तं महाबलम् लेभे जाम्बवतीं कन्याम् ऋक्षराजस्य संमताम्
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात्
उपायाद् द्वारकां कृष्णः स विनीतैः पुरःसरैः एवं स मणिम् आहृत्य विशोध्यात्मानम् अच्युतः
ददौ सत्राजिते तं वै सर्वसात्वतसंसदि एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना
आत्मा विशोधितः पापाद् विनिर्जित्य स्यमन्तकम् सत्राजितो दश त्व् आसन् भार्यास् तासां शतं सुताः
ख्यातिमन्तस् त्रयस् तेषां भगंकारस् तु पूर्वजः वीरो वातपतिश् चैव वसुमेधस् तथैव च
कुमार्यश् चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः सत्यभामोत्तमा तासां व्रतिनी च दृढव्रता
तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ सभाक्षो भङ्गकारिस् तु नावेयश् च नरोत्तमौ
जज्ञाते गुणसंपन्नौ विश्रुतौ रूपसंपदा माद्र्याः पुत्रो ऽथ जज्ञे ऽथ वृष्णिपुत्रो युधाजितः
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत
गान्दिनीं नाम तस्याश् च गाः सदा प्रददौ पिता तस्यां जज्ञे महाबाहुः श्रुतवान् अतिथिप्रियः
अक्रूरो ऽथ महाभागो जज्ञे विपुलदक्षिणः उपमद्गुस् तथा मद्गुर् मुदरश् चारिमर्दनः
आरिक्षेपस् तथोपेक्षः शत्रुहा चारिमेजयः धर्मभृच् चापि धर्मा च गृध्रभोजान्धकस् तथा
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना विश्रुताश्वस्य महिषी कन्या चास्य वसुंधरा
रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ
वसुदेवश् चोपदेवश् च जज्ञाते देववर्चसौ चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च
अश्वग्रीवो ऽश्वबाहुश् च सुपार्श्वकगवेषणौ अरिष्टनेमिश् च सुता धर्मो धर्मभृद् एव च
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्
वेद मिथ्याभिशापास् तं न स्पृशन्ति कदाचन