यथा विष्णौ भवेद् भक्तिस् तन् नो ब्रूहि महामते तपसा कर्मणा येन श्रोतुम् इच्छाम सांप्रतम्
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला
संसारे ऽस्मिन् महाघोरे सर्वभूतभयावहे महामोहकरे नॄणां नानादुःखशताकुले
तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः कथंचिल् लभते जन्म देही मानुष्यकं द्विजाः
मानुषत्वे ऽपि विप्रत्वं विप्रत्वे ऽपि विवेकिता विवेकाद् धर्मबुद्धिस् तु बुद्ध्या तु श्रेयसां ग्रहः
यावत् पापक्षयं पुंसां न भवेज् जन्म संचितम् तावन् न जायते भक्तिर् वासुदेवे जगन्मये
तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् अन्यदेवेषु या भक्तिः पुरुषस्येह जायते
कर्मणा मनसा वाचा तद्गतेनान्तरात्मना तेन तस्य भवेद् भक्तिर् यजने मुनिसत्तमाः
स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः तुष्टे हुताशने तस्य भक्तिर् भवति भास्करे
पूजां करोति सततम् आदित्यस्य ततो द्विजाः प्रसन्ने भास्करे तस्य भक्तिर् भवति शंकरे
पूजां करोति विधिवत् स तु शंभोः प्रयत्नतः तुष्टे त्रिलोचने तस्य भक्तिर् भवति केशवे
संपूज्य तं जगन्नाथं वासुदेवाख्यम् अव्ययम् ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः
अवैष्णवा नरा ये तु दृश्यन्ते च महामुने किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज
द्वौ भूतसर्गौ विख्यातौ लोके ऽस्मिन् मुनिसत्तमाः आसुरश् च तथा दैवः पुरा सृष्टः स्वयंभुवा
दैवीं प्रकृतिम् आसाद्य पूजयन्ति ततो ऽच्युतम् आसुरीं योनिम् आपन्ना दूषयन्ति नरा हरिम्
मायया हतविज्ञाना विष्णोस् ते तु नराधमाः अप्राप्य तं हरिं विप्रास् ततो यान्त्य् अधमां गतिम्
तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः
इच्छामस् तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् वक्तुम् अर्हसि धर्मज्ञ परं कौतूहलं हि नः
स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी कः शक्नोति हरेर् मायां ज्ञातुं तां केशवाद् ऋते
या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम
प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः नगरे कामदमनस् तस्याथ तनयः शुचिः
धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः
पितास्य त्व् अकरोद् यत्नं विवाहाय न चैच्छत तं पिता प्राह किम् इति नेच्छसे दारसंग्रहम्
सर्वम् एतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल सुखमूला हि दाराश् च तस्मात् तं त्वं समाचर
स पितुर् वचनं श्रुत्वा तूष्णीम् आस्ते च गौरवात् मुहुर् मुहुस् तं च पिता चोदयाम् आस भो द्विजाः
अथासौ पितरं प्राह तात नामानुरूपता मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी
तं पिता प्राह संगम्य नैष धर्मो ऽस्ति पुत्रक न विधारयितव्या स्यात् पुरुषेण विपश्चिता
कुरु मद्वचनं पुत्र प्रभुर् अस्मि पिता तव मा निमज्ज कुलं मह्यं नरके संततिक्षयात्
स हि तं पितुर् आदेशं श्रुत्वा प्राह सुतो वशी प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम्
शृणु तात वचो मह्यं तत्त्ववाक्यं सहेतुकम् नामानुरूपं कर्तव्यं सत्यं भवति पार्थिव