अहम् एवोर्वशी विप्र त्वां जिज्ञासार्थम् आगता परीक्षितो निश्चितवान् भवान् सत्यतपा ऋषिः
गच्छ शूकरवोद्देशं रूपतीर्थेति विश्रुतम् सिद्धिं यास्यसि विप्रेन्द्र ततस् त्वं माम् अवाप्स्यसि
इत्य् उक्त्वा दिवम् उत्पत्य सा जगामोर्वशी द्विजाः स च सत्यतपा विप्रो रूपतीर्थं जगाम ह
तत्र शान्तिपरो भूत्वा नियमव्रतधृक् शुचिः देहोत्सर्गे जगामासौ गान्धर्वं लोकम् उत्तमम्
तत्र मन्वन्तरशतं भोगान् भुक्त्वा यथार्थतः बभूव सुकुले राजा प्रजारञ्जनतत्परः
स यज्वा विविधैर् यज्ञैः समाप्तवरदक्षिणैः पुत्रेषु राज्यं निक्षिप्य ययौ शौकरवं पुनः
रूपतीर्थे मृतो भूयः शक्रलोकम् उपागतः तत्र मन्वन्तरशतं भोगान् भुक्त्वा ततश् च्युतः
प्रतिष्ठाने पुरवरे बुधपुत्रः पुरूरवाः बभूव तत्र चोर्वश्याः संगमाय तपोधनाः
एवं पुरा सत्यतपा द्विजातिस् तीर्थे प्रसिद्धे स हि रूपसंज्ञे आराध्य जन्मन्य् अथ चार्च्य विष्णुम् अवाप्य भोगान् अथ मुक्तिम् एति
श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे कृष्णस्य येन चाण्डालो गतो ऽसौ परमां गतिम्
यथा विष्णौ भवेद् भक्तिस् तन् नो ब्रूहि महामते तपसा कर्मणा येन श्रोतुम् इच्छाम सांप्रतम्
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला
संसारे ऽस्मिन् महाघोरे सर्वभूतभयावहे महामोहकरे नॄणां नानादुःखशताकुले
तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः कथंचिल् लभते जन्म देही मानुष्यकं द्विजाः
मानुषत्वे ऽपि विप्रत्वं विप्रत्वे ऽपि विवेकिता विवेकाद् धर्मबुद्धिस् तु बुद्ध्या तु श्रेयसां ग्रहः
यावत् पापक्षयं पुंसां न भवेज् जन्म संचितम् तावन् न जायते भक्तिर् वासुदेवे जगन्मये
तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् अन्यदेवेषु या भक्तिः पुरुषस्येह जायते
कर्मणा मनसा वाचा तद्गतेनान्तरात्मना तेन तस्य भवेद् भक्तिर् यजने मुनिसत्तमाः
स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः तुष्टे हुताशने तस्य भक्तिर् भवति भास्करे
पूजां करोति सततम् आदित्यस्य ततो द्विजाः प्रसन्ने भास्करे तस्य भक्तिर् भवति शंकरे
पूजां करोति विधिवत् स तु शंभोः प्रयत्नतः तुष्टे त्रिलोचने तस्य भक्तिर् भवति केशवे
संपूज्य तं जगन्नाथं वासुदेवाख्यम् अव्ययम् ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः
अवैष्णवा नरा ये तु दृश्यन्ते च महामुने किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज
द्वौ भूतसर्गौ विख्यातौ लोके ऽस्मिन् मुनिसत्तमाः आसुरश् च तथा दैवः पुरा सृष्टः स्वयंभुवा
दैवीं प्रकृतिम् आसाद्य पूजयन्ति ततो ऽच्युतम् आसुरीं योनिम् आपन्ना दूषयन्ति नरा हरिम्
मायया हतविज्ञाना विष्णोस् ते तु नराधमाः अप्राप्य तं हरिं विप्रास् ततो यान्त्य् अधमां गतिम्
तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः महामोहकरी नॄणां दुस्तरा चाकृतात्मभिः
इच्छामस् तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् वक्तुम् अर्हसि धर्मज्ञ परं कौतूहलं हि नः
स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी कः शक्नोति हरेर् मायां ज्ञातुं तां केशवाद् ऋते
या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम