प्रोवाच तां सिद्धवरः सा च तं सिद्धम् अब्रवीत् नियमं कंचिद् अपि हि करोतु द्विजसत्तमः
येनाहं कर्मणा सिद्ध तं जानामि न चान्यथा तद् उर्वशीवचो ऽभ्येत्य तस्मै मूर्खद्विजाय तु
कथयाम् आस सिद्धस् तु सो ऽपीमं नियमं जगौ तवाग्रे सिद्धपुरुष नियमो ऽयं कृतो मया
न भोक्ष्ये ऽद्यप्रभृति वै शकटं सत्यम् ईरितम् इत्य् उक्तः प्रययौ सिद्धः स्वर्गे दृष्ट्वोर्वशीम् अथ
प्राहासौ शकटं भोक्ष्ये नाद्यप्रभृति कर्हिचित् तं सिद्धम् उर्वशी प्राह ज्ञातो ऽसौ सांप्रतं मया
नियमग्रहणाद् एव मूर्खो माम् उपहासकः इत्य् उक्त्वा प्रययौ शीघ्रं वासं नारायणात्मजा
सिद्धो ऽपि विचचारासौ कामचारी महीतलम् उर्वश्य् अपि वरारोहा गत्वा वाराणसीं पुरीम्
मत्स्योदरीजले स्नानं चक्रे दिव्यवपुर्धरा अथासाव् अपि मूर्खस् तु नदीं मत्स्योदरीं मुने
जगामाथ ददर्शासौ स्नायमानाम् अथोर्वशीम् तां दृष्ट्वा ववृधे ऽथास्य मन्मथः क्षोभकृद् दृढम्
चकार मूर्खश् चेष्टाश् च तं विवेदोर्वशी स्वयम् तं मूर्खं सिद्धगदितं ज्ञात्वा सस्मितम् आह तम्
किम् इच्छसि महाभाग मत्तः शीघ्रम् इहोच्यताम् करिष्यामि वचस् तुभ्यं त्वं विश्रब्धं करिष्यसि
आत्मप्रदानेन मम प्राणान् रक्ष शुचिस्मिते
तं प्राहाथोर्वशी विप्रं नियमस्थास्मि सांप्रतम् त्वं तिष्ठस्व क्षणम् अथ प्रतीक्षस्वागतं मम
स्थितो ऽस्मीत्य् अब्रवीद् विप्रः सापि स्वर्गं जगाम ह मासमात्रेण सायाता ददर्श तं कृशं द्विजम्
स्थितं मासं नदीतीरे निराहारं सुराङ्गना तं दृष्ट्वा निश्चययुतं भूत्वा वृद्धवपुस् ततः
सा चकार नदीतीरे शकटं शर्करावृतम् घृतेन मधुना चैव नदीं मत्स्योदरीं गता
स्नात्वाथ भूमौ वसन्ती शकटं च यथार्थतः तं ब्राह्मणं समाहूय वाक्यम् आह सुलोचना
मया तीव्रं व्रतं विप्र चीर्णं सौभाग्यकारणात् व्रतान्ते निष्कृतिं दद्यां प्रतिगृह्णीष्व भो द्विज
स प्राह किम् इदं लोके दीयते शर्करावृतम् क्षुत्क्षामकण्ठः पृच्छामि साधु भद्रे समीरय
सा प्राह शकटो विप्र शर्करापिष्टसंयुतः इमं त्वं समुपादाय प्राणं तर्पय मा चिरम्
स तच् छ्रुत्वाथ संस्मृत्य क्षुधया पीडितो ऽपि सन् प्राह भद्रे न गृह्णामि नियमो हि कृतो मया
पुरतः सिद्धवर्गस्य न भोक्ष्ये शकटं त्व् इति परिज्ञानार्थम् उर्वश्या ददस्वान्यस्य कस्यचित्
साब्रवीन् नियमो भद्र कृतः काष्ठमये त्वया नासौ काष्ठमयो भुङ्क्ष्व क्षुधया चातिपीडितः
तां ब्राह्मणः प्रत्युवाच न मया तद् विशेषणम् कृतं भद्रे ऽथ नियमः सामान्येनैव मे कृतः
तं भूयः प्राह सा तन्वी न चेद् भोक्ष्यसि ब्राह्मण गृहं गृहीत्वा गच्छस्व कुटुम्बं तव भोक्ष्यति
स ताम् उवाच सुदति न तावद् यामि मन्दिरम् इहायाता वरारोहा त्रैलोक्ये ऽप्य् अधिका गुणैः
सा मया मदनार्तेन प्रार्थिताश्वासितस् तया स्थीयतां क्षणम् इत्य् एवं स्थास्यामीति मयोदितम्
मासमात्रं गतायास् तु तस्या भद्रे स्थितस्य च मम सत्यानुरक्तस्य संगमाय धृतव्रते
तस्य सा वचनं श्रुत्वा कृत्वा स्वं रूपम् उत्तमम् विहस्य भावगम्भीरम् उर्वशी प्राह तं द्विजम्
साधु सत्यं त्वया विप्र व्रतं निष्ठितचेतसा निष्पादितं हठाद् एव मम दर्शनम् इच्छता