अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् तेन कर्मविपाकेन संभूतो ब्रह्मराक्षसः
तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर प्रजागरे गीतिकैकां पश्चिमां दातुम् अर्हसि
तम् उवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम्
बाढम् इत्य् अवदत् सो ऽपि मातङ्गो ऽपि ददौ तदा गीतिकाफलम् आमन्त्र्य मुहूर्तार्धप्रजागरम्
तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः प्रणम्य प्रययौ हृष्टस् तीर्थवर्यं पृथूदकम्
तत्रानशनसंकल्पं कृत्वा प्राणाञ् जहौ द्विजाः राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः
पृथूदकप्रभावाच् च ब्रह्मलोकं च दुर्लभम् दश वर्षसहस्राणि निरातङ्को ऽवसत् ततः
तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः
मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम राक्षसे तु गते धीमान् गृहम् एत्य यतात्मवान्
तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिर् अप्य् असौ पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम्
कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् दृष्ट्वा स्कन्दं ययौ धाराचक्रे चापि प्रदक्षिणम्
ततो ऽद्रिवरम् आगम्य विन्ध्यम् उच्चशिलोच्चयम् पापप्रमोचनं तीर्थम् आससाद स तु द्विजाः
स्नानं पापहरं चक्रे स तु चाण्डालवंशजः विमुक्तपापः सस्मार पूर्वजातीर् अनेकशः
स पूर्वजन्मन्य् अभवद् भिक्षुः संयतवाङ्मनाः यतकायश् च मतिमान् वेदवेदाङ्गपारगः
एकदा गोषु नगराद् ध्रियमाणासु तस्करैः भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा
स तेनाधर्मदोषेण चाण्डालीं योनिम् आगतः पापप्रमोचने स्नातः स मृतो नर्मदातटे
मूर्खो ऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः तत्रास्य वसतो ऽब्दैस् तु त्रिंशद्भिः सिद्धपूरुषः
विरूपरूपी बभ्राम योगमालाबलान्वितः तं दृष्ट्वा सोपहासार्थम् अभिवाद्याभ्युवाच ह
कुशलं सिद्धपुरुषं कुतस् त्व् आगम्यते त्वया
एवं संभाषितस् तेन ज्ञातो ऽहम् इति चिन्त्य तु प्रत्युवाचाथ वन्द्यस् तं स्वर्गलोकाद् उपागतः
तं सिद्धं प्राह मूर्खो ऽसौ किं त्वं वेत्सि त्रिविष्टपे नारायणोरुप्रभवाम् उर्वशीम् अप्सरोवराम्
सिद्धस् तम् आह तां वेद्मि शक्रचामरधारिणीम् स्वर्गस्याभरणं मुख्यम् उर्वशीं साधुसंभवाम्
विप्रः सिद्धम् उवाचाथ ऋजुमार्गविवर्जितः तन् मित्र मत्कृते वार्त्ताम् उर्वश्या भवतादरात्
कथनीया यच् च सा ते ब्रूयाद् आख्यास्यते भवान् बाढम् इत्य् अब्रवीत् सिद्धः सो ऽपि विप्रो मुदान्वितः
बभूव सिद्धो ऽपि ययौ मेरुपृष्ठं सुरालयम् समेत्य चोर्वशीं प्राह यद् उक्तो ऽसौ द्विजेन तु
सा प्राह तं सिद्धवरं नाहं काशिपतिं द्विजम् जानामि सत्यम् उक्तं ते न चेतसि मम स्थितम्
इत्य् उक्तः प्रययौ सो ऽपि कालेन बहुना पुनः वाराणसीं ययौ सिद्धो दृष्टो मूर्खेण वै पुनः
दृष्टः पृष्टः किल भूयः किम् आहोरुभवा तव सिद्धो ऽब्रवीन् न जानामि माम् उवाचोर्वशी स्वयम्
सिद्धवाक्यं ततः श्रुत्वा स्मितभिन्नौष्ठसंपुटः पुनः प्राह कथं वेत्सीत्य् एवं वाच्या त्वयोर्वशी
बाढम् एवं करिष्यामीत्य् उक्त्वा सिद्धो दिवं गतः ददर्श शक्रभवनान् निष्क्रामन्तीम् अथोर्वशीम्