एवम् उच्चारिते तेन मातङ्गस् तम् उवाच ह
किं पूर्वं भवता कर्म विकृतं कृतम् अञ्जसा येन त्वं दोषजातेन संभूतो ब्रह्मराक्षसः
तस्य तद् वाक्यम् आकर्ण्य मातङ्गं ब्रह्मराक्षसः प्रोवाच दुःखसंतप्तः संस्मृत्य स्वकृतं कृतम्
श्रूयतां यो ऽहम् आसं वै पूर्वं यच् च मया कृतम् यस्मिन् कृते पापयोनिं गतवान् अस्मि राक्षसीम्
सोमशर्म इति ख्यातः पूर्वम् आसम् अहं द्विजः पुत्रो ऽध्ययनशीलस्य देवशर्मस्य यज्वनः
कस्यचिद् यजमानस्य सूत्रमन्त्रबहिष्कृतः नृपस्य कर्मसक्तेन यूपकर्मसुनिष्ठितः
आग्नीध्रं चाकरोद् यज्ञे लोभमोहप्रपीडितः तस्मिन् परिसमाप्ते तु मौर्ख्याद् दम्भम् अनुष्ठितः
यष्टुम् आरब्धवान् अस्मि द्वादशाहं महाक्रतुम् प्रवर्तमाने तस्मिंस् तु कुक्षिशूलो ऽभवन् मम
संपूर्णे दशरात्रे तु न समाप्ते तथा क्रतौ विरूपाक्षस्य दीयन्त्याम् आहुत्यां राक्षसे क्षणे
मृतो ऽहं तेन दोषेण संभूतो ब्रह्मराक्षसः मूर्खेण मन्त्रहीनेन सूत्रस्वरविवर्जितम्
अजानता यज्ञविद्यां यद् इष्टं याजितं च यत् तेन कर्मविपाकेन संभूतो ब्रह्मराक्षसः
तन् मां पापमहाम्भोधौ निमग्नं त्वं समुद्धर प्रजागरे गीतिकैकां पश्चिमां दातुम् अर्हसि
तम् उवाचाथ चाण्डालो यदि प्राणिवधाद् भवान् निवृत्तिं कुरुते दद्यां ततः पश्चिमगीतिकाम्
बाढम् इत्य् अवदत् सो ऽपि मातङ्गो ऽपि ददौ तदा गीतिकाफलम् आमन्त्र्य मुहूर्तार्धप्रजागरम्
तस्मिन् गीतिफले दत्ते मातङ्गं ब्रह्मराक्षसः प्रणम्य प्रययौ हृष्टस् तीर्थवर्यं पृथूदकम्
तत्रानशनसंकल्पं कृत्वा प्राणाञ् जहौ द्विजाः राक्षसत्वाद् विनिर्मुक्तो गीतिकाफलबृंहितः
पृथूदकप्रभावाच् च ब्रह्मलोकं च दुर्लभम् दश वर्षसहस्राणि निरातङ्को ऽवसत् ततः
तस्यान्ते ब्राह्मणो जातो बभूव स्मृतिमान् वशी तस्याहं चरितं भूयः कथयिष्यामि भो द्विजाः
मातङ्गस्य कथाशेषं शृणुध्वं गदतो मम राक्षसे तु गते धीमान् गृहम् एत्य यतात्मवान्
तद्विप्रचरितं स्मृत्वा निर्विण्णः शुचिर् अप्य् असौ पुत्रेषु भार्यां निक्षिप्य ददौ भूम्याः प्रदक्षिणाम्
कोकामुखात् समारभ्य यावद् वै स्कन्ददर्शनम् दृष्ट्वा स्कन्दं ययौ धाराचक्रे चापि प्रदक्षिणम्
ततो ऽद्रिवरम् आगम्य विन्ध्यम् उच्चशिलोच्चयम् पापप्रमोचनं तीर्थम् आससाद स तु द्विजाः
स्नानं पापहरं चक्रे स तु चाण्डालवंशजः विमुक्तपापः सस्मार पूर्वजातीर् अनेकशः
स पूर्वजन्मन्य् अभवद् भिक्षुः संयतवाङ्मनाः यतकायश् च मतिमान् वेदवेदाङ्गपारगः
एकदा गोषु नगराद् ध्रियमाणासु तस्करैः भिक्षावधूता रजसा मुक्ता तेनाथ भिक्षुणा
स तेनाधर्मदोषेण चाण्डालीं योनिम् आगतः पापप्रमोचने स्नातः स मृतो नर्मदातटे
मूर्खो ऽभूद् ब्राह्मणवरो वाराणस्यां च भो द्विजाः तत्रास्य वसतो ऽब्दैस् तु त्रिंशद्भिः सिद्धपूरुषः
विरूपरूपी बभ्राम योगमालाबलान्वितः तं दृष्ट्वा सोपहासार्थम् अभिवाद्याभ्युवाच ह
कुशलं सिद्धपुरुषं कुतस् त्व् आगम्यते त्वया
एवं संभाषितस् तेन ज्ञातो ऽहम् इति चिन्त्य तु प्रत्युवाचाथ वन्द्यस् तं स्वर्गलोकाद् उपागतः