तं व्रजन्तं पथि नरः प्राह भद्र क्व गच्छसि स तथाकथयत् सर्वं सो ऽप्य् एनं पुनर् अब्रवीत्
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः महता तु प्रयत्नेन शरीरं पालयेद् बुधः
जीवधर्मार्थसुखं नरस् तथाप्नोति मोक्षगतिम् अग्र्याम् जीवन् कीर्तिम् उपैति च भवति मृतस्य का कथा लोके
मातङ्गस् तद् वचः श्रुत्वा प्रत्युवाचाथ हेतुमत्
भद्र सत्यं पुरस्कृत्य गच्छामि शपथाः कृताः
तं भूयः प्रत्युवाचाथ किम् एवं मूढधीर् भवान् किं न श्रुतं त्वया साधो मनुना यद् उदीरितम्
गोस्त्रीद्विजानां परिरक्षणार्थं विवाहकाले सुरतप्रसङ्गे प्राणात्यये सर्वधनापहारे पञ्चानृतान्य् आहुर् अपातकानि
धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ वञ्चने चार्थहानौ च स्वनाशे ऽनृतके तथा एवं तद् वाक्यम् आकर्ण्य मातङ्गः प्रत्युवाच ह
मैवं वदस्व भद्रं ते सत्यं लोकेषु पूज्यते सत्येनावाप्यते सौख्यं यत् किंचिज् जगतीगतम्
सत्येनार्कः प्रतपति सत्येनापो रसात्मिकाः ज्वलत्य् अग्निश् च सत्येन वाति सत्येन मारुतः
धर्मार्थकामसंप्राप्तिर् मोक्षप्राप्तिश् च दुर्लभा सत्येन जायते पुंसां तस्मात् सत्यं न संत्यजेत्
सत्यं ब्रह्म परं लोके सत्यं यज्ञेषु चोत्तमम् सत्यं स्वर्गसमायातं तस्मात् सत्यं न संत्यजेत्
इत्य् उक्त्वा सो ऽथ मातङ्गस् तं प्रक्षिप्य नरोत्तमम् जगाम तत्र यत्रास्ते प्राणिहा ब्रह्मराक्षसः
तम् आगतं समीक्ष्यासौ चाण्डालं ब्रह्मराक्षसः विस्मयोत्फुल्लनयनः शिरःकम्पं तम् अब्रवीत्
साधु साधु महाभाग सत्यवाक्यानुपालक न मातङ्गम् अहं मन्ये भवन्तं सत्यलक्षणम्
कर्मणानेन मन्ये त्वां ब्राह्मणं शुचिम् अव्ययम् यत् किंचित् त्वां भद्रमुखं प्रवक्ष्ये धर्मसंश्रयम् किं तत्र भवता रात्रौ कृतं विष्णुगृहे वद
तम् अभ्युवाच मातङ्गः शृणु विष्णुगृहे मया यत् कृतं रजनीभागे यथातथ्यं वदामि ते
विष्णोर् देवकुलस्याधः स्थितेनानम्रमूर्तिना प्रजागरः कृतो रात्रौ गायता विष्णुगीतिकाम्
तं ब्रह्मराक्षसः प्राह कियन्तं कालम् उच्यताम् प्रजागरो विष्णुगृहे कृतं भक्तिमता वद
तम् अभ्युवाच प्रहसन् विंशत्य् अब्दानि राक्षस एकादश्यां मासि मासि कृतस् तत्र प्रजागरः मातङ्गवचनं श्रुत्वा प्रोवाच ब्रह्मराक्षसः
यद् अद्य त्वां प्रवक्ष्यामि तद् भवान् वक्तुम् अर्हति एकरात्रिकृतं साधो मम देहि प्रजागरम्
एवं त्वां मोक्षयिष्यामि मोक्षयिष्यामि नान्यथा त्रिः सत्येन महाभाग इत्य् उक्त्वा विरराम ह
मातङ्गस् तम् उवाचाथ मयात्मा ते निशाचर निवेदितः किम् उक्तेन खादस्व स्वेच्छयापि माम्
तम् आह राक्षसो भूयो यामद्वयप्रजागरम् सगीतं मे प्रयच्छस्व कृपां कर्तुं त्वम् अर्हसि
मातङ्गो राक्षसं प्राह किम् असंबद्धम् उच्यते खादस्व स्वेच्छया मां त्वं न प्रदास्ये प्रजागरम् मातङ्गवचनं श्रुत्वा प्राह तं ब्रह्मराक्षसः
को हि दुष्टमतिर् मन्दो भवन्तं द्रष्टुम् उत्सहेत् धर्षयितुं पीडयितुं रक्षितं धर्मकर्मणा
दीनस्य पापग्रस्तस्य विषयैर् मोहितस्य च नरकार्तस्य मूढस्य साधवः स्युर् दयान्विताः
तन् मम त्वं महाभाग कृपां कृत्वा प्रजागरम् यामस्यैकस्य मे देहि गच्छ वा निलयं स्वकम्
तं पुनः प्राह चाण्डालो न यास्यामि निजं गृहम् न चापि तव दास्यामि कथंचिद् यामजागरम् तं प्रहस्याथ चाण्डालं प्रोवाच ब्रह्मराक्षसः
रात्र्यवसाने या गीता गीतिका कौतुकाश्रया तस्याः फलं प्रयच्छस्व त्राहि पापात् समुद्धर