एवं तस्यासतस् तत्र कुर्वतो विष्णुप्रीणनम् गीतिकाभिर् विचित्राभिर् वयः प्रतिगतं बहु
एकदा चैत्रमासे तु कृष्णैकादशिगोचरे विष्णुशुश्रूषणार्थाय ययौ वनम् अनुत्तमम्
वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः क्षिप्रातटे महारण्ये विभीतकतरोर् अधः
दृष्टः स राक्षसेनाथ गृहीतश् चापि भक्षितुम् चाण्डालस् तम् अथोवाच नाद्य भक्ष्यस् त्वया ह्य् अहम्
प्रातर् भोक्ष्यसि कल्याण सत्यम् एष्याम्य् अहं पुनः अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस
श्वः सत्येन समेष्यामि ततः खादसि माम् इति विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया कार्यं न व्रतविघ्नं मे कर्तुम् अर्हसि राक्षस
तं राक्षसः प्रत्युवाच दशरात्रम् अभोजनम् ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज
न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् निशाचरवचः श्रुत्वा मातङ्गस् तम् उवाच ह सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर् दृढैः
सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच् छृणु सत्येनाहं शपिष्यामि पुनरागमनाय च
आदित्यश् चन्द्रमा वह्निर् वायुर् भूर् द्यौर् जलं मनः अहोरात्रं यमः संध्ये द्वे विदुर् नरचेष्टितम्
परदारेषु यत् पापं यत् परद्रव्यहारिषु यच् च ब्रह्महनः पापं सुरापे गुरुतल्पगे
वन्ध्यापतेश् च यत् पापं यत् पापं वृषलीपतेः यच् च देवलके पापं मत्स्यमांसाशिनश् च यत्
क्रोडमांसाशिनो यच् च कूर्ममांसाशिनश् च यत् वृथा मांसाशिनो यच् च पृष्ठमांसाशिनश् च यत्
कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः
कृपणस्य च यत् पापं यच् च वन्ध्यातिथेर् अपि अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी
तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् रजस्वलां तथा पश्चाच् छ्राद्धं कृत्वा स्त्रियं व्रजेत्
सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च
दम्भमायानुरक्ते च यत् पापं मधुघातिनः ब्राह्मणस्य प्रतिश्रुत्य यत् पापं तदयच्छतः
यच् च कन्यानृते पापं यच् च गोश्वतरानृते स्त्रीबालहन्तुर् यत् पापं यच् च मिथ्याभिभाषिणः
देववेदद्विजनृपपुत्रमित्रसतीस्त्रियः यच् च निन्दयतां पापं गुरुमिथ्यापचारतः
अग्नित्यागिषु यत् पापम् अग्निदायिषु यद् वने गृहेष्ट्या पातके यच् च यद् गोघ्ने यद् द्विजाधमे
यत् पापं परिवित्ते च यत् पापं परिवेदिनः तयोर् दातृग्रहीत्रोश् च यत् पापं भ्रूणघातिनः
किं चात्र बहुभिः प्रोक्तैः शपथैस् तव राक्षस श्रूयतां शपथं भीमं दुर्वाच्यम् अपि कथ्यते
स्वकन्याजीविनः पापं गूढसत्येन साक्षिणः अयाज्ययाजके षण्ढे यत् पापं श्रवणे ऽधमे
प्रव्रज्यावसिते यच् च ब्रह्मचारिणि कामुके एतैस् तु पापैर् लिप्ये ऽहं यदि नैष्यामि ते ऽन्तिकम्
मातङ्गवचनं श्रुत्वा विस्मितो ब्रह्मराक्षसः प्राह गच्छस्व सत्येन समयं चैव पालय
इत्य् उक्तः कुणपाशेन श्वपाकः कुसुमानि तु समादायागमच् चैव विष्णोः स निलयं गतः
तानि प्रादाद् ब्राह्मणाय सो ऽपि प्रक्षाल्य चाम्भसा विष्णुम् अभ्यर्च्य निलयं जगाम स तपोधनाः
सो ऽपि मातङ्गदायादः सोपवासस् तु तां निशाम् गायन् हि बाह्यभूमिष्ठः प्रजागरम् उपाकरोत्
प्रभातायां तु शर्वर्यां स्नात्वा देवं नमस्य च सत्यं स समयं कर्तुं प्रतस्थे यत्र राक्षसः