इहागत्य पुनर् यान्ति उपर्य् उपरि च क्रमात् संभवे संभवे ते तु शतवर्षं द्विजोत्तमाः
भुक्त्वा यथेप्सितान् भोगान् यान्ति लोकान्तरं ततः दशजन्म यदा तेषां क्रमेणैवं प्रपूर्यते
तदा लोकं हरेर् दिव्यं ब्रह्मलोकाद् व्रजन्ति ते गत्वा तत्राक्षयान् भोगान् भुक्त्वा सर्वगुणान्वितान्
मन्वन्तरशतं यावज् जन्ममृत्युविवर्जिताः गच्छन्ति भुवनं पश्चाद् वाराहस्य द्विजोत्तमाः
दिव्यदेहाः कुण्डलिनो महाकाया महाबलाः क्रीडन्ति तत्र विप्रेन्द्राः कृत्वा रूपं चतुर्भुजम्
दश कोटिसहस्राणि वर्षाणां द्विजसत्तमाः तिष्ठन्ति शाश्वते भावे सर्वैर् देवैर् नमस्कृताः
ततो यान्ति तु ते धीरा नरसिंहगृहं द्विजाः क्रीडन्ते तत्र मुदिता वर्षकोट्ययुतानि च
तदन्ते वैष्णवं यान्ति पुरं सिद्धनिषेवितम् क्रीडन्ते तत्र सौख्येन वर्षाणाम् अयुतानि च
ब्रह्मलोके पुनर् विप्रा गच्छन्ति साधकोत्तमाः तत्र स्थित्वा चिरं कालं वर्षकोटिशतान् बहून्
नारायणपुरं यान्ति ततस् ते साधकेश्वराः भुक्त्वा भोगांश् च विविधान् वर्षकोट्यर्बुदानि च
अनिरुद्धपुरं पश्चाद् दिव्यरूपा महाबलाः गच्छन्ति साधकवराः स्तूयमानाः सुरासुरैः
तत्र कोटिसहस्राणि वर्षाणां च चतुर्दश तिष्ठन्ति वैष्णवास् तत्र जरामरणवर्जिताः
प्रद्युम्नस्य पुरं पश्चाद् गच्छन्ति विगतज्वराः तत्र तिष्ठन्ति ते विप्रा लक्षकोटिशतत्रयम्
स्वच्छन्दगामिनो हृष्टा बलशक्तिसमन्विताः गच्छन्ति योगिनः पश्चाद् यत्र संकर्षणः प्रभुः
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान् सहस्रशः विशन्ति वासुदेवैति विरूपाख्ये निरञ्जने
विनिर्मुक्ताः परे तत्त्वे जरामरणवर्जिते तत्र गत्वा विमुक्तास् ते भवेयुर् नात्र संशयः
एवं क्रमेण भुक्तिं ते प्राप्नुवन्ति मनीषिणः मुक्तिं च मुनिशार्दूला वासुदेवार्चने रताः
एकादश्याम् उभे पक्षे निराहारः समाहितः स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः
संपूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः पुष्पैर् गन्धैस् तथा दीपैर् धूपैर् नैवेद्यकैस् तथा
उपहारैर् बहुविधैर् जप्यैर् होमप्रदक्षिणैः स्तोत्रैर् नानाविधैर् दिव्यैर् गीतवाद्यैर् मनोहरैः
दण्डवत्प्रणिपातैश् च जयशब्दैस् तथोत्तमैः एवं संपूज्य विधिवद् रात्रौ कृत्वा प्रजागरम्
कथां वा गीतिकां विष्णोर् गायन् विष्णुपरायणः याति विष्णोः परं स्थानं नरो नास्त्य् अत्र संशयः
प्रजागरे गीतिकायाः फलं विष्णोर् महामुने ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्य् अनुपूर्वशः गीतिकायाः फलं विष्णोर् जागरे यद् उदाहृतम्
अवन्ती नाम नगरी बभूव भुवि विश्रुता तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः
तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः
विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः एकादश्यां समागम्य सोपवासो ऽथ गायति
गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः गान्धारषड्जनैषादस्वरपञ्चमधैवतैः
रात्रिजागरणे विष्णुं गाथाभिर् उपगायति प्रभाते च प्रणम्येशं द्वादश्यां गृहम् एत्य च
जामातृभागिनेयांश् च भोजयित्वा सकन्यकाः ततः सपरिवारस् तु पश्चाद् भुङ्क्ते द्विजोत्तमाः