माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् अनमित्रम् अमित्राणां जेतारम् अपराजितम्
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ
प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान्
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् स कदाचिन् निशापाये रथेन रथिनां वरः
तोयकूलम् अपः स्प्रष्टुम् उपस्थातुं ययौ रविम् तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः
विस्पष्टमूर्तिर् भगवांस् तेजोमण्डलवान् विभुः अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः
यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते तेजोमण्डलिनं देवं तथैव पुरतः स्थितम्
को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै एतच् छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम्
स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा
प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् तम् अभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित्
लोकान् भासयसे सर्वान् येन त्वं सततं प्रभो तद् एतन् मणिरत्नं मे भगवन् दातुम् अर्हसि
ततः स्यमन्तकमणिं दत्तवान् भास्करस् तदा स तम् आबध्य नगरीं प्रविवेश महीपतिः
तं जनाः पर्यधावन्त सूर्यो ऽयं गच्छतीति ह स्वां पुरीं स विसिष्माय राजा त्व् अन्तःपुरं तथा
तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिद् उत्तमम्
स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने कालवर्षी च पर्जन्यो न च व्याधिभयं ह्य् अभूत्
लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके गोविन्दो न च तं लेभे शक्तो ऽपि न जहार सः
कदाचिन् मृगयां यातः प्रसेनस् तेन भूषितः स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात्
अथ सिंहं प्रधावन्तम् ऋक्षराजो महाबलः निहत्य मणिरत्नं तद् आदाय प्राविशद् गुहाम्
ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् प्रार्थनां तां मणेर् बद्ध्वा सर्व एव शशङ्किरे
स शङ्क्यमानो धर्मात्मा अकारी तस्य कर्मणः आहरिष्ये मणिम् इति प्रतिज्ञाय वनं ययौ
यत्र प्रसेनो मृगयां व्यचरत् तत्र चाप्य् अथ प्रसेनस्य पदं गृह्य पुरुषैर् आप्तकारिभिः
ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिम् उत्तमम् अन्वेषयन् परिश्रान्तः स ददर्श महामनाः
साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम् अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
ऋक्षेण निहतो दृष्टः पदैर् ऋक्षस् तु सूचितः पदैस् तैर् अन्वियायाथ गुहाम् ऋक्षस्य माधवः
स हि ऋक्षबिले वाणीं शुश्राव प्रमदेरिताम् धात्र्या कुमारम् आदाय सुतं जाम्बवतो द्विजाः
क्रीडयन्त्या च मणिना मा रोदीर् इत्य् अथेरिताम्
सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः सुकुमारक मा रोदीस् तव ह्य् एष स्यमन्तकः
व्यक्तितस् तस्य शब्दस्य तूर्णम् एव बिलं ययौ प्रविश्य तत्र भगवांस् तद् ऋक्षबिलम् अञ्जसा
स्थापयित्वा बिलद्वारे यदूंल् लाङ्गलिना सह शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः
युयुधे वासुदेवस् तु बिले जाम्बवता सह बाहुभ्याम् एव गोविन्दो दिवसान् एकविंशतिम्