छेत्तुम् अर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस् त्वदृते मुनिसत्तम
साधु साधु मुनिश्रेष्ठा भवद्भिर् यद् उदाहृतम् शृणुध्वम् आनुपूर्व्येण वैष्णवानां सुखावहम्
दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं द्विजाः
न तेषां दुर्लभः स्वर्गो मोक्षश् च मुनिसत्तमाः लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान्
रत्नपर्वतम् आरुह्य नरो रत्नं यथाददेत् स्वेच्छया मुनिशार्दूलास् तथा कृष्णान् मनोरथान्
कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा गृह्णाति पुरुषो विप्रास् तथा कृष्णान् मनोरथान्
श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम्
आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना प्राप्नुवन्ति नराः कामान् सुराणाम् अपि दुर्लभान्
ये ऽर्चयन्ति सदा भक्त्या वासुदेवाख्यम् अव्ययम् न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये
धन्यास् ते पुरुषा लोके ये ऽर्चयन्ति सदा हरिम् सर्वपापहरं देवं सर्वकामफलप्रदम्
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम्
तस्माच् छृणुध्वं मुनयो यत् पृच्छत ममानघाः प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम्
त्यक्त्वा मानुष्यकं देहं रोगायतनम् अध्रुवम् जरामरणसंयुक्तं जलबुद्बुदसंनिभम्
मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर् युतम् अस्थिस्थूणम् अमेध्यं च स्नायुचर्मशिरान्वितम्
कामगेन विमानेन दिव्यगन्धर्वनादिना तरुणादित्यवर्णेन किङ्किणीजालमालिना
उपगीयमाना गन्धर्वैर् अप्सरोभिर् अलंकृताः व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक्
मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् भुवनानि पृथक् तेषां सर्वभोगैर् अलंकृताः
ततो ऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः
तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान्
भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान्
तस्माद् व्रजन्ति ते विप्राश् चन्द्रलोकं सुखप्रदम् मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम्
कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः तस्मान् नक्षत्रलोकं तु विमानैः समलंकृतम्
व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैर् अलंकृताः मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान्
तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान्
भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् शक्रलोकं पुनस् तस्माद् गच्छन्ति सुरपूजिताः
मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान्
तस्माद् व्रजन्ति ते लोकं प्राजापत्यम् अनुत्तमम् भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान्
मन्वन्तरम् अशीतिं च कालं सर्वसुखप्रदम् तस्मात् पैतामहं लोकं यान्ति ते वैष्णवा द्विजाः
मन्वन्तराणां नवति क्रीडित्वा तत्र वै सुखम् इहागत्य पुनस् तस्माद् विप्राणां प्रवरे कुले
जायन्ते योगिनो विप्रा वेदशास्त्रार्थपारगाः एवं सर्वेषु लोकेषु भुक्त्वा भोगान् यथेप्सितान्