तत्र च त्रितयं दृष्टं भविष्यति न संशयः समस्ता हि वयं देवास् तस्य देहे वसामहे
तस्यैव चाग्रजो भ्राता सिताद्रिनिचयप्रभः हली बल इति ख्यातो भविष्यति धराधरः
त्रिशिरास् तस्य देवस्य दृष्टो ऽनन्त इति प्रभोः सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली
अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः स च शेषो विचरते परया वै मुदा युतः
अन्तर्वसति भोगेन परिरभ्य वसुंधराम् य एष विष्णुः सो ऽनन्तो भगवान् वसुधाधरः
यो रामः स हृषीकेशो ऽच्युतः सर्वधराधरः ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ एष वो ऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः तद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः
अहो कृष्णस्य माहात्म्यं श्रुतम् अस्माभिर् अद्भुतम् सर्वपापहरं पुण्यं धन्यं संसारनाशनम्
संपूज्य विधिवद् भक्त्या वासुदेवं महामुने कां गतिं यान्ति मनुजा वासुदेवार्चने रताः
किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्य् उभयं फलम्
छेत्तुम् अर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस् त्वदृते मुनिसत्तम
साधु साधु मुनिश्रेष्ठा भवद्भिर् यद् उदाहृतम् शृणुध्वम् आनुपूर्व्येण वैष्णवानां सुखावहम्
दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं द्विजाः
न तेषां दुर्लभः स्वर्गो मोक्षश् च मुनिसत्तमाः लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान्
रत्नपर्वतम् आरुह्य नरो रत्नं यथाददेत् स्वेच्छया मुनिशार्दूलास् तथा कृष्णान् मनोरथान्
कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा गृह्णाति पुरुषो विप्रास् तथा कृष्णान् मनोरथान्
श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम्
आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना प्राप्नुवन्ति नराः कामान् सुराणाम् अपि दुर्लभान्
ये ऽर्चयन्ति सदा भक्त्या वासुदेवाख्यम् अव्ययम् न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये
धन्यास् ते पुरुषा लोके ये ऽर्चयन्ति सदा हरिम् सर्वपापहरं देवं सर्वकामफलप्रदम्
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः संपूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम्
तस्माच् छृणुध्वं मुनयो यत् पृच्छत ममानघाः प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम्
त्यक्त्वा मानुष्यकं देहं रोगायतनम् अध्रुवम् जरामरणसंयुक्तं जलबुद्बुदसंनिभम्
मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर् युतम् अस्थिस्थूणम् अमेध्यं च स्नायुचर्मशिरान्वितम्
कामगेन विमानेन दिव्यगन्धर्वनादिना तरुणादित्यवर्णेन किङ्किणीजालमालिना
उपगीयमाना गन्धर्वैर् अप्सरोभिर् अलंकृताः व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक्
मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् भुवनानि पृथक् तेषां सर्वभोगैर् अलंकृताः
ततो ऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः
तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान्
भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान्