समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः अंशो नाम मनोः पुत्रो ह्य् अन्तर्धामा ततः परम्
अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः प्राचीनबर्हिर् भविता हविर्धाम्नः सुतो द्विजाः
तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः
दाक्षायण्यस् तथादित्यो मनुर् आदित्यतस् ततः मनोश् च वंशज इला सुद्युम्नश् च भविष्यति
बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः
यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति
वृजिनीवतश् च भविता उषङ्गुर् अपराजितः उषङ्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा
तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम्
यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः
स्ववंशविस्तारकरं जनयिष्यति मानदम् वसुदेवम् इति ख्यातं पुत्रम् आनकदुन्दुभिम्
तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः
राज्ञो बद्धान् स सर्वान् वै मोक्षयिष्यति यादवः जरासंधं तु राजानं निर्जित्य गिरिगह्वरे
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् पृथिव्याम् अप्रतिहतो वीर्येणापि भविष्यति
विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः शूरः संहननो भूतो द्वारकायां वसन् प्रभुः
पालयिष्यति गां देवीं विनिर्जित्य दुराशयान् तं भवन्तः समासाद्य ब्राह्मणैर् अर्हणैर् वरैः
अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम् यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं च पितामहम्
द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् दृष्टे तस्मिन्न् अहं दृष्टो न मे ऽत्रास्ति विचारणा
पितामहो वासुदेव इति वित्त तपोधनाः स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति यस् तु तं मानवो लोके संश्रयिष्यति केशवम्
तस्य कीर्तिर् यशश् चैव स्वर्गश् चैव भविष्यति धर्माणां देशिकः साक्षाद् भविष्यति स धर्मवान्
धर्मविद्भिः स देवेशो नमस्कार्यः सदाच्युतः धर्म एव सदा हि स्याद् अस्मिन्न् अभ्यर्चिते विभौ
स हि देवो महातेजाः प्रजाहितचिकीर्षया धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज च
ताः सृष्टास् तेन विधिना पर्वते गन्धमादने सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः
तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः वन्दितो हि स वन्देत मानितो मानयीत च
दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः
एवं तस्यानवद्यस्य विष्णोर् वै परमं तपः आदिदेवस्य महतः सज्जनाचरितं सदा
भुवने ऽभ्यर्चितो नित्यं देवैर् अपि सनातनः अभयेनानुरूपेण प्रपद्य तम् अनुव्रताः
कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः
एष वै विहितो मार्गो मया वै मुनिसत्तमाः तं दृष्ट्वा सर्वदेवेशं दृष्टाः स्युः सुरसत्तमाः
महावराहं तं देवं सर्वलोकपितामहम् अहं चैव नमस्यामि नित्यम् एव जगत्पतिम्