पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः
दशबाहुर् महातेजा देवतारिनिषूदनः श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः
ब्रह्मा तस्योदरभवस् तस्याहं च शिरोभवः शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः
ऋषयो देहसंभूतास् तस्य लोकाश् च शाश्वताः पितामहगृहं साक्षात् सर्वदेवगृहं च सः
सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः संहर्ता चैव भूतानां स्थावरस्य चरस्य च
स हि देवदेवः साक्षाद् देवनाथः परंतपः सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः
न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन सनातनो महाभागो गोविन्द इति विश्रुतः
स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः सुरकार्यार्थम् उत्पन्नो मानुष्यं वपुर् आस्थितः
नहि देवगणाः शक्तास् त्रिविक्रमविनाकृताः भुवने देवकार्याणि कर्तुं नायकवर्जितः
नायकः सर्वभूतानां सर्वभूतनमस्कृतः एतस्य देवनाथस्य कार्यस्य च परस्य च
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ब्रह्मा वसति नाभिस्थः शरीरे ऽहं च संस्थितः
सर्वाः सुखं संस्थिताश् च शरीरे तस्य देवताः स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः उत्तमेन सुशीलेन शौचेन च दमेन च
पराक्रमेण वीर्येण वपुषा दर्शनेन च आरोहणप्रमाणेन वीर्येणार्जवसंपदा
आनृशंस्येन रूपेण बलेन च समन्वितः अस्त्रैः समुदितः सर्वैर् दिव्यैर् अद्भुतदर्शनैः
योगमायासहस्राक्षो विरूपाक्षो महामनाः वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः
क्षमावांश् चानहंवादी स देवो ब्रह्मदायकः भयहर्ता भयार्तानां मित्रानन्दविवर्धनः
शरण्यः सर्वभूतानां दीनानां पालने रतः श्रुतवान् अथ संपन्नः सर्वभूतनमस्कृतः
समाश्रितानाम् उपकृच् छत्रूणां भयकृत् तथा नीतिज्ञो नीतिसंपन्नो ब्रह्मवादी जितेन्द्रियः
भवार्थम् एव देवानां बुद्ध्या परमया युतः प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते
समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः अंशो नाम मनोः पुत्रो ह्य् अन्तर्धामा ततः परम्
अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः प्राचीनबर्हिर् भविता हविर्धाम्नः सुतो द्विजाः
तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः
दाक्षायण्यस् तथादित्यो मनुर् आदित्यतस् ततः मनोश् च वंशज इला सुद्युम्नश् च भविष्यति
बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः
यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति
वृजिनीवतश् च भविता उषङ्गुर् अपराजितः उषङ्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा
तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम्
यज्विनां च विशुद्धानां वंशे ब्राह्मणसत्तमाः स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः
स्ववंशविस्तारकरं जनयिष्यति मानदम् वसुदेवम् इति ख्यातं पुत्रम् आनकदुन्दुभिम्