श्रुत्वैवं सा जगन्माता भर्तुर् वचनम् आदितः हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः
ये तत्रासन् मुनिवरास् त्रिपुरारेः समीपतः तीर्थयात्राप्रसङ्गेन गतास् तस्मिन् गिरौ द्विजाः
ते ऽपि संपूज्य तं देवं शूलपाणिं प्रणम्य च पप्रच्छुः संशयं चैव लोकानां हितकाम्यया
त्रिलोचन नमस् ते ऽस्तु दक्षक्रतुविनाशन पृच्छामस् त्वां जगन्नाथ संशयं हृदि संस्थितम्
संसारे ऽस्मिन् महाघोरे भैरवे लोमहर्षणे भ्रमन्ति सुचिरं कालं पुरुषाश् चाल्पमेधसः
येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् ब्रूहि तच् छ्रोतुम् इच्छामः परं कौतूहलं हि नः
कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः
ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम्
किं तेषां जीवितेनेह पशुवच् चेष्टितेन च येषां न प्रवणं चित्तं वासुदेवे जगन्मये
पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शंकर
पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः
दशबाहुर् महातेजा देवतारिनिषूदनः श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः
ब्रह्मा तस्योदरभवस् तस्याहं च शिरोभवः शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः
ऋषयो देहसंभूतास् तस्य लोकाश् च शाश्वताः पितामहगृहं साक्षात् सर्वदेवगृहं च सः
सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः संहर्ता चैव भूतानां स्थावरस्य चरस्य च
स हि देवदेवः साक्षाद् देवनाथः परंतपः सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः
न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन सनातनो महाभागो गोविन्द इति विश्रुतः
स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः सुरकार्यार्थम् उत्पन्नो मानुष्यं वपुर् आस्थितः
नहि देवगणाः शक्तास् त्रिविक्रमविनाकृताः भुवने देवकार्याणि कर्तुं नायकवर्जितः
नायकः सर्वभूतानां सर्वभूतनमस्कृतः एतस्य देवनाथस्य कार्यस्य च परस्य च
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ब्रह्मा वसति नाभिस्थः शरीरे ऽहं च संस्थितः
सर्वाः सुखं संस्थिताश् च शरीरे तस्य देवताः स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः उत्तमेन सुशीलेन शौचेन च दमेन च
पराक्रमेण वीर्येण वपुषा दर्शनेन च आरोहणप्रमाणेन वीर्येणार्जवसंपदा
आनृशंस्येन रूपेण बलेन च समन्वितः अस्त्रैः समुदितः सर्वैर् दिव्यैर् अद्भुतदर्शनैः
योगमायासहस्राक्षो विरूपाक्षो महामनाः वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः
क्षमावांश् चानहंवादी स देवो ब्रह्मदायकः भयहर्ता भयार्तानां मित्रानन्दविवर्धनः
शरण्यः सर्वभूतानां दीनानां पालने रतः श्रुतवान् अथ संपन्नः सर्वभूतनमस्कृतः
समाश्रितानाम् उपकृच् छत्रूणां भयकृत् तथा नीतिज्ञो नीतिसंपन्नो ब्रह्मवादी जितेन्द्रियः
भवार्थम् एव देवानां बुद्ध्या परमया युतः प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते