स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् बह्वाबाधापरिक्लिष्टे कुले जयति सो ऽधमे
लोकद्विष्टो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु
अपरः सर्वभूतानि दयावान् अनुपश्यति मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः
नोद्वेजयति भूतानि न च हन्ति दयापरः हस्तपादैश् च नियतैर् विश्वास्यः सर्वजन्तुषु
न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च उद्वेजयति भूतानि शुभकर्मा दयापरः
एवं शीलसमाचारः स्वर्गे समुपजायते तत्रासौ भवने दिव्ये मुदा वसति देववत्
स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते अल्पायासो निरातङ्कः स जातः सुखम् एधते
सुखभागी निरायासो निरुद्वेगः सदा नरः एष देवि सतां मार्गो बाधा यत्र न विद्यते
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तो ऽर्थकोविदाः
दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत्
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर
जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै
ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा परिपृच्छन्त्य् अहरहः कुशलाकुशलं सदा
वर्जयन्तो ऽशुभं कर्म सेवमानाः शुभं तथा लभन्ते स्वर्गतिं नित्यम् इह लोके यथासुखम्
स चेन् मनुष्यतां याति मेधावी तत्र जायते श्रुतं यज्ञानुगं यस्य कल्याणम् उपजायते
परदारेषु ये चापि चक्षुर् दुष्टं प्रयुञ्जते तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति हि
मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् रोगार्तास् ते भवन्तीह नरा दुष्कृतकारिणः
ये तु मूढा दुराचारा वियोनौ मैथुने रताः पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते
पशूंश् च ये वै बध्नन्ति ये चैव गुरुतल्पगाः प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः
अवद्यं किं तु वै कर्म निरवद्यं तथैव च श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम
श्रेयांसं मार्गम् अन्विच्छन् सदा यः पृच्छति द्विजान् धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते
यदि मानुष्यतां देवि कदाचित् संनियच्छति मेधावी धारणायुक्तः प्राज्ञस् तत्रापि जायते
एष देवि सतां धर्मो गन्तव्यो भूतिकारकः नृणां हितार्थाय सदा मया चैवम् उदाहृतः
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम्
व्रतवन्तो नराः केचिच् छ्रद्धादमपरायणाः अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः
यज्वानश् च तथैवान्ये निर्मोहाश् च तथा परे केन कर्मविपाकेन भवन्तीह वदस्व मे
आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः
अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः अव्रता नष्टमर्यादास् ते नरा ब्रह्मराक्षसाः
ये वै कालकृतोद्योगात् संभवन्तीह मानवाः निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः
एष देवि मया सर्वसंशयच्छेदनाय ते कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः